________________
१३२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १
इत्यनेन, अतः सङ्ग्रहो बहुवचनान्तानेव विकल्पानाश्रयति, शेषास्तु नया एकवचनबहुवचनान्तानप्याश्रयन्तीत्येतदाह — सर्वाकारितग्राहिण इति । सर्ववचनै रेकवचनादिभिराकारितानेतान् विकल्पान् गृह्णन्ति तच्छीलाच सर्वाकारितग्राहिण इति । सम्प्रति ग्रन्थगौरवं मन्यमान एकत्र च विकल्पानां दर्शितत्वादन्यत्र सुखेन ज्ञास्यतीत्येतदतिदिशति — एवं सर्वभावेष्वित्यादिना । सर्वभावेषु - सर्वार्थेषु धर्मास्तिकायादिषु नयवादानुगम इति नयवादे - नानुगमं- अनुसरणं-निभालनं कार्ये तच्चान्वेषिणा पुंसा ॥ एवं तावत् प्रमेयेण नयानां विचारः कृतः । सम्प्रति प्रमेयपरिच्छेदकेषु प्रमाणेषु को नयः कथं प्रवर्तते इत्यस्मिन्नवसरे पर आहभा०—अन्न्राह-अथ पंचानां संविपर्ययाणां कानि को नयः समाश्रयत इति । अत्रोच्यते
टी०० - अथ पञ्चेत्यादि । अथेत्येतस्माद् विचारादनन्तरं पञ्चानां मत्यादीनां ज्ञानाज्ञानेषु ज्ञानानां ज्ञेयस्वतच्चतया ग्राहकाणां सविपर्ययाणामिति सह विपर्यनयविचारः येण अज्ञानस्वभावेन यानि वर्तन्ते तेषां सविपर्ययाणां कानि मत्यादीनि को नयो नैगमादिः श्रयते-अभ्युपगैच्छति ? । अत्रोच्यते
भा०- - नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते, ऋजुसूत्रनयां मतिज्ञानमत्यज्ञानवर्जीनि षट् ॥
टी० – नैगमादिनयास्त्रयः - नैगमसङ्ग्रहव्यवहाराः सर्वाणि निरवशेषाणि, कियन्तीति चेदुच्यते-अष्टौ मतिज्ञानं, मत्यज्ञानं, श्रुतज्ञानं श्रुताज्ञानं, अवधिज्ञानं, विभङ्गज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानमष्टमम् । एतान्यष्टावपि यतोऽर्थं परिच्छिन्दन्ति, अतोऽभ्युपगच्छन्त्यष्टावपि । ऋजुसूत्रः पुनः षडेषां मध्ये श्रयते, मतिज्ञानमत्यज्ञानवजनि षट् मतिं मत्यज्ञानं च नाभ्युपैति
भा०—अत्राह - ( अथ ) कस्मात् मतिं सविपर्ययां न श्रयत इति ? | अन्रोच्यते--: - श्रुतस्य सविपर्ययस्योपग्रहत्वात् शब्दनयस्तु द्वे एव श्रुतज्ञानकेवज्ञाने श्रयते ॥
"
टी० – अत्राह - अथ कस्मात् मतिं सविपर्ययामिति मत्यज्ञानसहितामित्यर्थः न श्रयते नेच्छतीति ? । अत्रोच्यते - यस्मान्मतिमत्यज्ञाने श्रुतज्ञानस्य सविपर्य - यस्येति श्रुताज्ञानसहितस्य उपग्रहं कुरुतः । कथमिति चेदुच्यते - यदेतदिन्द्रियजं चक्षुरादिभ्य उपजातं तद् हि अवग्रहणमात्रेण प्रवर्तमानं न वस्तुनो निश्चयं कर्तुमलम, यदा श्रुतज्ञानेनासावालोचितोऽर्थो भवति तदा यथावन्निश्चीयते इति, तस्मात् तदेवाभ्युपगन्तव्यं श्रुतज्ञानं, किं मतिज्ञानेन ? इत्येवं श्रुतस्योपग्रहकरत्वात् न मतिज्ञानं सविपर्ययमाश्रीयते । शब्दनयस्तु भावार्थावलम्बी द्वे एव नान्यत् ताभ्यामित्युक्तम्, के ते ? उच्यतेश्रुतज्ञानकेवलज्ञाने । अत्र शब्दमते परोऽसूयया ब्रूते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org