________________
सूत्र ३५ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
अथ सङ्ग्रहः कथं घटमिच्छतीत्याह
भा० - एकस्मिन् वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः सङ्ग्रहः ॥
ढी ० – एकस्मिन्नित्यादि । एकस्मिन् घटे बहुषु घटेषु वा नामादिविशेषिते - ष्विति नामस्थापनाद्रव्यभावघटेष्वित्यर्थः । साम्प्रतेषु वर्तमानेष्वतीतेषु - अतिक्रान्तेष्वनागतेषु - आगामिषु घटेषु यः सम्प्रत्ययः - सामान्यं घटो घट इति परिज्ञानं स सङ्ग्रहः, यस्मात् सामान्यमेव घटादिरूपेण निर्भासते, न सामान्यादन्ये विशेषाः सन्ति ।
१२३
व्यवहाराभिप्रायप्रकटनायाह
भा०- तेष्वेव लौकिकपरीक्षकप्रायेषूपचार गम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्यवहारः ॥
टी० - तेष्वित्यादि । एकद्विबहुत्वनामादिरूपेषु लोके विदिता लौकिकाः परीक्षकत्वेन ज्ञाताः लौकिकपरीक्षकाः-पर्यालोचकाः तेषां ग्राह्याः- आदेयाः जलाद्याहरणार्थ ये घटास्तेषु, उपचारगम्येष्विति लोकक्रियाधारेषु यथास्थूलार्थेष्विति सूक्ष्मसामान्योपसर्जनेषु, यतोऽस्य विशेषैरेव व्यवहारो भूयसा, न सामान्येनेति ॥
ऋजुसूत्रनयमतं विवृणोति -
भा० - तेष्वेव सत्सु साम्प्रतेषु सम्प्रत्ययः ऋजुसूत्रः ॥
टी० - तेष्वेवेत्यादि । घटेषु सत्सु - विद्यमानेषु वर्तमान समयावधिकेषु सम्प्रत्ययः ऋजुसूत्र इति ॥
अधुना साम्प्रताभिप्रायं निरूपयति
Jain Education International
भा०-तेष्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्प्रत्ययः साम्प्रतः शब्दः ॥
ढी॰—तेष्वेवेत्यादि । ऋजुसूत्राभिप्रेतेषु वर्तमानकालावधिकेषु नामस्थापनाद्रव्यभावघटानां ये वाचकाः शब्दास्ते चान्यतमग्राहिणः यस्माद् यस्य शब्दस्य नम्यमानः पदार्थो वाच्यो न तस्य स्थापना, यस्य वा स्थापना न तस्य द्रव्यं, यस्य द्रव्यं न तस्य भावः इत्यतो नामादीनां घटानां ये शब्दाः अन्यतमं - नामस्थापनादिकं गृह्णन्ति तेऽन्यतमग्राहिणस्तेषु शब्देषु उच्चारितेष्वन्यतमग्राहिषु यद् विज्ञानं स साम्प्रतः, ते शब्दा यदि प्रसिद्धाः पूर्वं भवन्तिनिर्ज्ञाताभिधेयसम्बन्धाः अस्येदं वाच्यमित्यनेन रूपेण, तथा गमका इत्येतदाह - प्रसिद्धपूर्वकेषु, प्रसिद्धः पूर्वो येषां प्रथमं सङ्केतस्ते प्रसिद्धपूर्वकास्तेषु नामादीनामन्यतमवाचhy सम्प्रत्यय इति ॥
समभिरूढमतोद्विभावयिषया आह
१' उच्चरितेषु ' इति ख- पाठः ।
For Personal & Private Use Only
www.jainelibrary.org