________________
१२०
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
यिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः साम्प्रताख्यामासादयति । यतो भाव एव शब्दाभिधेयो भवति, तेनाशेषाभिलषितकार्यकरणादिति ॥
अधुना समभिरूढलक्षणं दर्शयन्नाह -
समभिरूढलक्षणम् आ० - सत्स्वर्थेष्वसङ्क्रमः समभिरूढः ॥
टी० - सत्स्वर्थेषु इत्यादि । सत्सु - विद्यमानेषु वर्तमानपर्यायापत्रेष्वित्यर्थः, अर्थेषुघटादिषु असङ्क्रम इत्यन्यत्रागमनं शब्दस्य यत् सोऽसङ्क्रमः । यथा घट इत्यस्य शब्दस्य विद्यमानं घटं चेष्टात्मकं विरहय्य नान्यत्र कुटाद्यर्थे घटाभिधानसामर्थ्यमस्ति, अनमिधेय - स्वात्, यदि चास्य घटशब्दस्य कुटादिरर्थोऽभिधेयो भवेदेवं सति यथोक्ताः सर्वसङ्करत्वा - दयो दोषा उपजायेरन् नित्यतो न शब्दान्तराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति, एवमसङ्क्रमगवेषणपरोऽध्यवसायः समभिरूढः ॥
एवम्भूतनयलक्षणोन्निनीपया आह
एवंभूतलक्षणम् भा०— ० - व्यञ्जनार्थयोरेवम्भूत इति ॥
टी० - व्यञ्जनेत्यादि । व्यञ्जनं - शब्दस्तस्यार्थः - अभिधेयो वाच्यम् तयोर्व्यञ्जनार्थयोरेवं संघटनं करोति घट इति यदिदमभिधानं तच्चेष्टाप्रवृत्तस्यैव जलधारणाहरणसमर्थस्य वाचकं, चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः, इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसाय एवम्भूतोऽभिधीयते इति ॥
भा०- - अत्राह - उद्दिष्टा भवता नैगमादयो नयाः । तत्र नया इति कः पदार्थ इति । अत्रोच्यते - नयाः प्रापकाः कारकाः साधका नयस्य शब्दार्थः निर्वर्तका निर्भासका उपलम्भका व्यञ्जका इत्यनर्थान्तरम् ॥
टी० - अन्नावकाशे चोदकः प्रश्नयति - उद्दिष्टाः - अभिहिताः लक्षणतस्त्वया - नैगमादयः पश्च । तत्र नैगमादिसूत्रे, नया इति यदभिधानं तस्यानेककारकसन्निधाने सति कः प्रत्ययार्थो ग्राह्य इति संशयानः पृच्छति तन्नया इति कः पदार्थः । तदित्यनेन बहुवचनान्तमभिधानं नया इत्येतन्निर्दिशति, नया इति तु इतिशब्दः नया इत्यस्य पदार्थविपर्यासकृत्, नया इत्यस्य शब्दस्य कः पदार्थः ॥ ननु च कोऽर्थ इयता सिद्धः । तत्र पदार्थ इति पदग्रहणमतिरिच्यते ? | उच्यते - शब्दस्य हि सिद्धोऽर्थो वाच्यो गम्यश्थ, यथा गुड इत्युक्ते द्रव्यं वाच्यम्, माधुर्यादयस्तु गम्याः, एवमिहापि वाच्योऽर्थो यः कश्चित् कर्त्रादिरूपः शेषस्तु गम्य इति, तत्रेह वाच्यमर्थ पदग्रहणेन प्रश्नयति, पदस्यार्थो वाच्यः क इति, न तु गम्यमानम्, सूरिराह- अत्रोच्यते - नयाः प्रापका इत्यादिना कर्त्रर्थः प्रदर्श्यते - नयन्त इति नयाः, सामान्यादिरूपेणार्थ प्रकाशयन्तीत्यर्थः । प्रापका इत्यनेन नयतेरन्तर्णीतण्यर्थता ख्यायते, प्रापयन्ति आत्मनि तं तमर्थ स्वाभिमताभिरुपपत्तिभिरिति । कुर्वन्तीत्यादिभिस्तु
& वाच्यः' इति ख- पाठः । २ ' तनया' इति पाठः, स एव च टीकाकारसम्मतः ।
Jain Education International
-
For Personal & Private Use Only
www.jainelibrary.org