________________
१०८ तत्वार्थाधिगमसूत्रम्
[ अध्यायः १ ___एवं सर्वेषां मत्यादीनां विषये प्रकाशितेवावकाशे ब्रूते अन्तेवासी-एषामनन्तरख्यापितानां मतिज्ञानादीनां युगपद्-एकस्मिन् काले एकस्मिन् जीवे कति भवन्त्याधेयानि ? किमेकं द्वे त्रीणि चत्वारि पश्चापि ? सर्वाणि तावन्न सङ्गच्छन्ते सर्वप्राणिनाम्, एवं सति समता स्यात् , सर्वेषां च सर्वज्ञता भवेत् , विरोधश्च स्यात् क्षायिकक्षायोपशमिकानां परस्परेण, तस्माद् यथैते दोषा न सन्ति तथा वाच्यम्, उच्यते अत्रसूत्रम्-एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्यः ॥ १.३१॥ भा०-एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदे
1 कस्मिन् जीवे आ चतुभ्यः । तद्यथा-कस्मिंश्चिजीवे मत्यादीनायुगपदेकजीवे मेकं भवति । कस्मिंश्चिज्जीवे वे भवतः। कस्मिंश्चित् त्रीणि ज्ञानसंख्या
भवन्ति । कस्मिंश्चिचत्वारि भवन्ति ॥ टी-एकादीत्यादि । एकशब्दः प्राथम्ये वर्तते, एकः-प्रथम आदिरेषां तान्येकादीनि-प्रथमादीनि भाज्यानि-विकल्प्यानि स्युन वा, युगपद्-एकस्मिन् कालेऽवधीकृते एकस्मिन् प्राणिनि, आ चतुभ्य इति आउभिविधौ न मर्यादायाम् , यत्रास्य मर्यादाऽभिप्रेता सूरेः तत्र प्राग्ग्रहणं करोति, 'विग्रहवती च संसारिणः प्राक् चतुर्व्यः' (अ०२,०२९) तथा 'प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात्' (अ०२,सू०३९ ) तस्मादिहाभिविधावाङ्, आ चतुर्यो ज्ञानेभ्यः एकस्मिन् जीवे सम्भव इति, चत्वार्येकत्र जीवे सम्भवन्तीति । भजनांच दर्शयतिकस्मिंश्चिदित्यादिना । कस्मिंश्चिन्मनुष्यादिके जीवे मत्यादीनां पञ्चानां ज्ञानानामेकं सम्भवति, कथं ? येन निसर्गसम्यग्दर्शनं प्राप्तं तस्य मतिज्ञानमाद्यमेवैकं समस्ति, न श्रुतं, यतस्तल्लब्धा सामायिकादिश्रुतं न पठति, अन्तरेणापि च श्रुतज्ञानमष्टौ प्रवचनमातरः संगृह्यन्ते तेन, अतस्तस्य ग्रन्थानुसारि विज्ञानं श्रुताख्यं न सम्भवति, एकं-प्रथमं मतिज्ञानमेव । कस्मिंश्चिज्जीवे हे भवतः-सम्यग्दर्शनसमन्वितस्य श्रोत्रेन्द्रियोपलब्धिः श्रुतं द्वादशाङ्ग, शेषेन्द्रियोपलब्धिर्मतिज्ञानम् । कस्मिंश्चित् प्राणिनि त्रीणि, द्वे मतिश्रुते तृतीयं चावधिज्ञानं यस्योत्पन्नम् । कस्मिंश्चिञ्चत्वारि, एतानि त्रीणि चतुर्थं मनःपर्यायज्ञानम्, प्रतिपन्नचारित्रस्य तीर्थकृत इव ॥ अथ यस्मिन् श्रुतज्ञानमेकं कचित् प्राणिनि स किं न प्रदश्यते ? यतो मतिरेवैका प्रदर्श्यते, उच्यते-यत्र श्रुतज्ञानं तत्रावश्यं मतिज्ञानम् , यत्र मतिज्ञानं तत्र श्रुतं स्याद् वा न वेति, तस्मान्मतिज्ञानमेवैकं कचिनिदर्यते, एतदाह
भा०–श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति । अत्राह-अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति नेति । अत्रोच्यते
भाटेभ्यः' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org