________________
१०६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ धर्मादीनि चत्वारि । किं सर्वपर्यायैः ? नेत्याह-तान्यपिन सर्वैरित्यादि । तान्यपि-रूपिद्रव्याणि न सर्वैः अतीतानागतवर्तमानैरुत्पादव्ययध्रौव्यादिभिरनन्तैः पर्यायैरिति ॥२८॥ मनःपर्यायज्ञानस्याधुना विषयनिवन्धनमाचिख्यासुराह
सूत्रम्-तदनन्तभागे मनःपर्यायस्य ॥ १-२९ ॥ भा०- यानि रूपीणि द्रव्याण्यवधिज्ञानी जानीते ततोऽनन्तभागे मन:
पर्यायस्य विषयनिवन्धो भवति । अवधिज्ञानविषयस्यानन्तमनःपयायस्य विषयः भागं मनःपर्यायज्ञानी जानीते, रूपिद्रव्याणि मनोरहस्यविचारगतानि च मानुषेक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति ॥२९॥
टी-तदनन्तभागे मनःपर्यायस्य । तेपामवधिज्ञानविषयीकृतरूपिद्रव्याणामनन्तभागस्तदनन्तभागस्तस्मिन् मनःपर्यायज्ञानस्य विषयनिबन्धः । एतद् विवृणोति-यानि शुक्लादिगुणोपेतानि रूपीणि द्रव्याणि जानात्यवधिज्ञानी तेषामवधिज्ञानदृष्टानामनन्तभागो यस्तस्मिन्ननन्तभागे एकस्मिन् मनःपर्यायस्य विषयनिबन्धो दृश्यः। तदित्यनेन अवधिज्ञानविषयोऽभिसंबध्यते । तस्यावधिज्ञानविषयस्य सर्वरूपिद्रव्यात्मकस्य योऽनन्तभागः एकस्तं मनःपर्यायज्ञानी जानीते । एतदाह-अवधिज्ञानविषयेत्यादिना। तान्यपि चावधिविषयानन्तभागवर्तीनि रूपीण्यवगच्छति-रूपरसाद्युपेतानि एवंगुणसम्प्राप्तात्मकानि द्रव्याणि, तान्यपि न कुडयाद्याकारव्यवस्थितानि जानाति, किन्तु मनोरहस्यविचारगतानि मन:-अनिन्द्रियं प्रतिविशिष्टपुद्गलप्रचितं चेतस्तदेव च रहस्यम्-अप्रकाशस्वरूपं अन्तर्वर्तमानं मनोरहस्ये विचारो-विचारणा अन्वेषणा, कथमयं पदार्थोऽवस्थित इत्येवंरूपा, तत्र मनोरहस्यविचारणायां गतानि-प्रविष्टानि चिन्त्यमानानि जीवेनेतियावत, तान्यपि न सर्वलोकवर्तीनि, किन्तु मनुष्यक्षेत्रम् आमानुषोत्तरात् तस्मिन् मनुष्यक्षेत्रे पर्यापन्नानि व्यवस्थितानीतियावत् , अवधिज्ञानिनश्च सकाशाद् विशुद्धतराणि बहुतरपर्यायाणि जानीत इतियावत् ॥ २९॥ सम्प्रति केवलज्ञानस्य विषयमाचष्टेसूत्रम्-सर्वद्रव्यपर्यायेषु केवलस्य ॥ १-३० ॥
भा०-सर्वद्रव्येषु सर्वपर्यायेषु च केवलज्ञानस्य विषयवा निबन्धो भवति । तद्धि सर्वभावग्राहकं सम्भिन्नलोकालो विषयम् । नातः परं ज्ञानमस्ति । न च कवलज्ञानविषयात् परं किञ्चिदन्यज्ज्ञेयमस्ति॥
टी.-सर्वद्रव्येत्यादि। सर्वद्रव्येषु धर्मादिषु सर्वपर्यायेषु उत्पादादिषु, धर्मादीनां च त्रयाणां परत उत्पादविगमो, पुद्गलानां जीवानां च स्वतः परतश्च, १'पर्यायस्याधुना' इति ग-पाठः। २ 'मनुष्यः' इति घ-टी-पाठः।
केवलस्य विषयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org