________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १
टी० – स्वामिकृत इत्यादि । अवधिज्ञानं संयतस्य - साधोर्विरतस्येत्यर्थः । असंयतस्य-अविरतस्य, वाशब्दात् संयतासंयतस्य वा, सर्वगतिषु नारकादिकासु चतसृष्वपि भवेत् यतो नारकादीनां सर्वेषामवधिज्ञानमुत्पद्यते, मनः पर्यायज्ञानं पुनर्मनुष्यसंयतस्यैव भवति, मनुष्यग्रहणात् नारकादिव्युदासः, संयतग्रहणात् मिथ्यादृष्ट्यादीनां प्रमत्तान्तानां षण्णां व्युदासः, एवकारेण नियमयति- मनुष्यसंयतस्यैव फलं नियमस्य दर्शयति- नान्यस्येति देवादेर्नैतदुत्पद्यत इत्यर्थः ॥
१०४
भा०-विषयकृतश्चानयोः प्रतिविशेषः । रूपिद्रव्येष्वसर्व पर्यायेष्ववधेर्विषयनिबन्धो भवति । तदनन्तभागे मनःपर्यायस्येति ॥
टी० विषयकृत इत्यादि । रूपषु परमाणुद्रव्येषु, असर्वपर्यायेष्विति । सर्वेसम्पूर्णाः पर्याया - उत्पादादयो येषां तानि सर्वपर्यायाणि न सर्व पर्यायाण्य सर्व पर्यायाणि तेषु, तानि हि रूपद्रव्याण्यवधिज्ञानी सर्वाणि जानाति न तु तेषां सर्वान् पर्यायानिति, एकैकस्य तु परमाणोः कदाचिदसइख्येयान् पर्यायान् जानाति कदाचित् सख्येयान् जघन्येन चतुरो रूपरसगन्धस्पर्शानिति, न पुनरेकैकस्य परमाणोरनन्तान् ज्ञातुं प्रत्यलं स्यात् पर्यायानिति, यदि च सर्वानेव जानीयात् केवल्येवासौ स्यात् ॥ " जे एगं जाणति से सव्वं जाणति"" इति [ आचाराङ्गनामकात् (सू० १२२ ) ] आगमात् ॥ अतोऽसर्व पर्यायेषु अवधेः - अवधिज्ञानस्य विषयनिबन्धः - विषयगोचर इति । मनः पर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, यतस्तेषामवधिज्ञानानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्त भागस्तस्मिन् मनः पर्यायज्ञानस्य विषयनिबन्धः । तस्मादतीन्द्रियत्वे तुल्येऽपि विशुद्धयादेर्भेदोऽवधिमनःपर्याययोरिति ॥
भा०—अत्राह-उक्तं मनः पर्यायज्ञानम् । अथ केवलज्ञानं किमिति ? । अत्रो - केवलानभिधान- च्यते- केवलज्ञानं दशमेऽध्याये वक्ष्यते - मोहक्षयात् ज्ञानदर्शनाकारणम् वरणान्तरायक्षयाच्च केवलमिति (१०- १ ) ॥ २६ ॥
अत्राह - एषां मतिज्ञानादीनां ज्ञानानां कः कस्य विषयनिबन्ध इति १ । अत्रोच्यते
टी०-अत्रावकाशे नवीति-प्रतिपादितं मनःपर्यायज्ञानं, तदनन्तरं केवलज्ञानमुद्दिष्टं, तत् किंस्वरूपमिति प्रश्नयति - केवलज्ञानं किंस्वरूपमिति । उच्यते - क्रमागतमपीह न भण्यते, यस्मात् केवलज्ञानस्योत्पत्तिः ज्ञानावरणीयादीनां घातिकर्मणामात्यन्तिकक्षयात् स चात्य - न्तिकक्षयः संवरेण प्राप्यते, संवरश्च नवमेऽध्याये वक्ष्यते, तत्समनन्तरं केवलज्ञानं दशमेऽध्यायेऽभिधास्यते, दशमाध्यायादिसूत्रं च तस्य प्रदेश के पठति - मोहक्षयादित्यादि । मोहनं
१ 'भवति' इति ग-टी-पाठः । २ 'सूक्ष्मद्रव्याणि' इति ख- पाठः । ३ य एकं जानाति स सर्व जानाति । ' • मवधिज्ञानज्ञातानां' इति प्रतिभाति । ५' प्रदर्शक ' इति क- स्त्र-पाठः ।
r
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org