________________
सूत्रं २४ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१०१
टी० - ऋजुविपुलेत्यादि । ऋजुश्च विपुला च ऋजुविपुले एते च मती ऋजुविपुलमती, ऋज्वी मतिर्विपुला च मतिरिति ॥ ननु च मतिरित्यनेन ज्ञानमभिधीयते, ज्ञानस्य च ऋजुत्वं विपुलत्वं चायुक्तं, 'निर्गुणा गुणा' (अ० ५, सू० ४० ) इति वक्ष्यमाणत्वात्, मूर्तेषु चैष व्यवहारः, ऋज्वी विपुला चाङ्गुलिरिति, ज्ञाने त्वमूर्ते ऋजुत्वविपुलत्वकल्पना न साधीयसीति । उच्यते - ऋजुता विपुलता वा ग्राह्यविषया समस्ति, ऋजुमति - विपुलमत्योः स्वरूपम् तथा ज्ञानस्योपदेशो भविष्यति, या मतिः सामान्यं गृह्णाति सा ऋज्वीत्युपदिश्यते, या पुनर्विशेषग्राहिणी सा विपुलेत्युपदिश्यते, ऋजु सामान्यमेकरूपत्वात्, विशेषास्तु विविक्ता बहवः । यदि सामान्यग्राहिणी ऋजुमतिर्मनः पर्यायज्ञानं प्राप्तं तर्हि मनःपर्यायदर्शनमपि, यस्मात् सामान्यग्राहि दर्शनमिष्यते, न चाराधितराद्धान्तैर्मन: पर्यायदर्शनमध्यगायि, आह- यद्यप्येवमुच्यते सामान्यग्राहिणी ऋजुमतिरिति तथाप्यसौ सामान्य भेदरूपमेव परिच्छिनत्ति, यतो बहून् भेदान् न शक्नोति परिच्छेत्तुम्, अतः सामान्यग्राहिणी, परमार्थतस्त्वसौ विशेषमेकं द्वौ त्रीन् वा गृह्णन्ती प्रवर्तते, अतः स्तोकाभिधायी सामान्यशब्दोऽत्र, या तु विशेषान् बहून् गृह्णाति सा विपुलमतिः । केचित् तु मन्यन्ते प्रज्ञापनायां मनः पर्यायज्ञाने दर्शनता पठ्यते, तत्सम्भवे सामान्यग्राहिणी घटि - तपदा, अतः ऋजुमतिर्विपुलमतिश्च । किम् ? मनः पर्यायः, मन इति च मनोवर्गणा जीवेन मन्यमाना द्रव्यविशेषा उच्यन्ते, तस्य मनसः पर्यायाः - परिणामविशेषाः मनःपर्यायाः, मनसि वा पर्यायाः, तेषु मनःपर्यायेषु यज्ज्ञानं तन्मनः पर्यायज्ञानमिति । इह साधोः सकलप्रमादरहितस्य मनःपर्यायज्ञानावरणीय कर्मक्षयोपशमात् प्रतिविशिष्टं ज्ञानमुदयते, येन ज्ञानेन मनः पर्याप्तिभाजां प्राणिनां पञ्चेन्द्रियाणां मनुष्यलोकवर्तिनां मनसः पर्यायानालम्बते - जानाति मुख्यतः, ये तु चिन्त्यमानाः स्तम्भकुम्भादयस्ताननुमानेनावगच्छन्ति । कथम् ? उच्यते - अस्यैतानि मनोद्रव्याण्यनेनाकारेण परिणतानि लक्ष्यन्ते अतः स्तम्भादिश्चिन्तितः, तस्य परिणामस्य स्तम्भाद्य विनाभावात् न पुनः साक्षाद् बहिर्द्रव्याणि जानीते इति, क्षयोपशमवैचित्र्यात्, कस्यचित् तदेवंविधं मनः पर्यायज्ञानं भवति येन सामान्यं घटमात्रं चिन्तितमवगच्छति तच्च ऋजुमतिर्मनः पर्यायज्ञानम् । अपरस्य तु तदावरणीयकर्मक्षयोपशमोत्कर्षापेक्षयैवंविधं भवति तद् विपुलमतिर्मनः पर्यायज्ञानम् उभयमपीन्द्रियानिन्द्रियनिरपेक्षम्, घटमात्रावच्छेदि प्रथमम्, द्वितीयं तु पर्यायशतैर्मृणमयरक्तशुक्लादिप्रमाणादिभिर्विचिन्तितं घटमवबुद्ध्यते, अत एव क्षयोपशमद्वैविध्यात्, प्रकृतेन च ज्ञानग्रहणेन मनःपर्यायं सम्बन्धन भाष्यकृदाह - मनः पर्यायज्ञानं द्विविधम् । मनः पर्यायस्य तेषु वा ज्ञानं मनः पर्यायज्ञानं, द्वे विधे यस्य तद् द्विविधं, ते द्वे विधे दर्शयति - ऋजुमतिर्मनः पर्यायज्ञानम्, ऋजुमतिरेव मनःपर्यायज्ञानं घटादिमात्र चिन्तितपरिज्ञानमिति, विपुलमतिरेव मनः : पर्यायज्ञानं, प्रसङ्गतः पर्यायशतैः परिज्ञानमिति ।। २४ ॥
एवं द्वैविध्ये दर्शिते चोदकोऽभिधत्ते - मनः पर्यायाणामुभयत्र दर्शनम् अतीन्द्रियत्वं चोभयोः ऋजुविपुलमत्योः समानम्, अतः किंकृतं नानात्वमिति प्रश्नयति-को
१ सामान्यं' इति क-ख-ग-पाठः ।
२ ' शब्दार्थः ' इति क-ख-ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org