________________
सूत्रं २०]
स्वोपज्ञभाष्य-टीकालङ्कृतम् कोष्ठादिबुद्धयः ) प्रसादादयः वाग्विवक्षितार्थप्रतिपादिका बुद्धिः वीजकोष्ठकादि, यावद् भण्यते तत् सर्वमसौ गृह्णाति न किञ्चित् न पश्यति तिलतुपमानमपीत्यर्थः। आभिरुत्तमाः अतिशयवाग्बुद्धिभिः सम्पन्ना-अन्वितास्तैः साधुवृन्दोपदेशनप्रवृत्तैर्गणधौरिभिर्यत् दृब्धं-रचितं तदङ्गप्रविष्टमाचारादि भण्यते, अङ्गबाह्यं सम्प्रतितनैः कृतमिति तदुच्यते। गणधरा इन्द्रभूत्या. दयः तेषामनन्तरे ये साधवस्तेऽनन्तर्याः शिष्या इत्यर्थः ते गणधरानन्तयोः जम्बूनामादयः आदिर्येषांप्रभवादीनां ते गणधरामन्तर्यादयः, तैरत्यन्तनिर्मलागमैः परमप्रकृष्टा वाङ्मतिबुद्धिशक्तयो येषां तैरिति,वाग्-भाषा स्पष्टवर्णा सकलदोषरहितामतिः,बुद्धिश्चतुर्विधा,शक्तिः वादलब्ध्यादि । एवंविधैरपि नोज्झितचारित्ररित्येतदाह-आचार्यैः ज्ञानाद्याचारानुष्ठायि मिरिति। किमर्थं तैस्तत एव प्रवचनादुद्धृत्य दशवैकालिकादि रचितम्? उच्यते-अल्पशक्तीनामनुग्रहार्थम्। कस्मादल्पशक्तय इति चेत्? उच्यते-कालसंहननेत्यादि । कालदोषात् कालस्य दुःखष]माभिधानस्य स्वभावात् पुरुषा अल्पशक्तयो भवन्ति, संहननच्छेदवर्ति स एव दोषस्तद्वाऽल्पसामर्थ्यम् , आयुः-जीवितं तदल्पं यः सर्वचिरं जीवेत् स वर्षशतमिति, अ. एतस्मात् कालादिदोषादल्पशक्तयः पुमांसो भविष्यन्तीत्येवं मन्यमानैर्गणधरैवंशजैः मूरिभिः शिष्याणां अनुग्रहाय-उपकारायाल्पेनैव ग्रन्थेन सुबहुमर्थमूहिष्यन्त इति मन्यमानैर्यत् प्रोक्तं दशवैकालिकादि तदङ्गबाह्यमिति । अत एव द्विविधकारणात् मतेः सकाशात् महाविषयता सिद्धा, एतदाह
भा०-सर्वज्ञप्रणीतत्वादानन्त्याच ज्ञेयस्य श्रुतज्ञानं मतिज्ञाश्रुतज्ञानस्य महीं
नस्य महा नान्महाविषयम् । तस्य महाविषयत्वात् तांस्तानर्थानधिकृत्य अडादिभेदः। प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्गनानात्वम् । किंचान्यत् । सुख
ग्रहणविज्ञानापोहप्रयोगार्थ च।। टी०-सर्वज्ञप्रणीतत्वादित्यादि। सर्वजैस्तीर्थकृद्भिः प्रणीतत्वादुपदिष्टत्वात् महाविषयं श्रुतम् , यतः सङ्ख्यामतिकान्तानपि भावानाख्यातुं शक्तोऽनन्तान् श्रुतज्ञानानुसारेण पदार्थान् , किंच आनन्त्याज्ज्ञेयस्य, अनन्तं हि ज्ञेयमनेन निरूपयितुं शक्यते सामान्यतः, मन्तुमत्या सम्प्रतितनार्थग्राहिकया, श्रुतज्ञानं-ग्रन्थानुसारि मतिज्ञानादिन्द्रियसमुत्थात् महाविषयमनेकार्थपरिच्छेदीत्यर्थः। तस्य श्रुतज्ञानस्य महाविषयत्वाद-बह्वर्थविषयत्वात् ताँस्तान् जीवादीनर्यमाणानाश्रित्य । एतदुक्तं भवति-तत्र ग्रन्थे गणिपिटके ये विप्रकीर्णा अर्थास्तान् संकुलतया स्थितान् पश्यद्भिस्तैगेणधरैस्तच्छिष्यादिभिश्व कथन्त्विदमेतावति ग्रन्थे परिसमाप्यत इति मन्यमानैरिदमङ्गमाचारादीदं च तदुपाङ्गमिति स्थापितम् , एतदाह-प्रकरणेत्यादि । प्रकरणं यत्र विवक्षित आचार इत्यादिरूपोऽर्थो निष्ठां याति तद् भण्यते तस्य समाप्तिः तामपेक्षते यत् तत् प्रकरणपरिसमाप्त्यपेक्षम् ,किं तद्? अङ्गोपाङ्गनानात्वमिति। किश्चान्यत् इतश्च कारणादङ्गोपाङ्गनानात्वमिति । सुखग्रहणेत्यादि । सुखेन-अनायासेनापूर्वस्य ग्रहणं करिष्यन्ति अङ्गा
१चिड़ितोऽयं ख-पाठः। २ ' ०पदेशेन ' इति ख-पाठः । ३ ' गणधरादिभिः ' इति स्व-पाठः।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org