________________
सूत्र १९ : ]
स्त्रोपज्ञभाष्य-टीकालङ्कृतम्
हाख्या,
पकरणेन्द्रियसंश्लिष्टैर्याच यावती च विज्ञानशक्तिराविरस्ति सैवंविधा विज्ञानशक्तिरवग्रतस्य स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टस्पर्शाद्याकारपरिणतपुद्गलराशेर्व्यञ्जनाख्यस्य ग्राहिकाऽवग्रह इति भण्यन्ते । तेनैतदुक्तं भवति - स्पर्शनाद्युपकरणेन्द्रियसंश्लिष्टाः स्पर्शनाद्याकारपरिणताः पुद्गलाः व्यञ्जनं भण्यन्ते, विशिष्टार्थावग्रहकारित्वात् तस्य व्यञ्जनस्य परिच्छेदको व्यक्तोऽवग्रहो भण्यते, अपरोऽपि तस्मान्मनाक निश्चिततरः किमप्येतदित्येवंविधः सामान्यपरिच्छेदोऽवग्रहो भण्यते, ततः परमीहादयः प्रवर्तन्ते, अतः सूक्तं व्यञ्जनस्यावग्रह एव अत्यन्तमलीमसपरिच्छेदक इति, नेहादयः, ईहापायधारणास्तस्य व्यञ्जनस्य ग्राहिका न भवन्ति, स्वांशे - भेदमार्गणनिश्चयधारणाख्ये तासां नियतत्वात् । एवमुक्तेन प्रकारेण, सूत्रद्वयाभिहितेनेत्यर्थः । द्विविध इति च । विषयस्य द्विरूपत्वात् द्विविध इत्युक्तम् । एतदेवाह - व्यञ्जनस्यार्थस्य च परिच्छेदे प्रवर्तमानो द्विविध उच्यते, ईहादयस्त्वर्थस्य स्पर्शादेरेव विशेषका भवन्ति, नेहापायधारणास्ववग्रहस्य द्वैरूप्यमस्तीति ॥ १८ ॥
अथ किं स्पर्शनादीनामिन्द्रियाणां सर्वेषां व्यञ्जनावग्रहः समस्ति, उत कस्यचिन्नेति १ । उच्यते - कस्यचिन्न सम्भवतीत्यपि । एतद् दर्शयति
सूत्रम् - न चक्षुरनिन्द्रियाभ्याम् ॥ १–१९ ॥
भा० - चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति, चतुर्भिरिन्द्रियैः शेषेर्भवति । एवमेतत् मतिज्ञानं द्विविधं चतुर्विधमष्टाविंशतिविधमष्टषष्टयुत्तरशतविधं षट्त्रिंशस्त्रिशतविधं च भवति ॥ १९ ॥
अत्राह - गृह्णीमस्तावन्मतिज्ञानम् । अथ श्रुतज्ञानं किमिति अत्रोच्यते ॥ टी० - करणे सहार्थे वैषा तृतीया, चक्षुषा उपकरणेन्द्रियाख्येन सह नोइन्द्रियेण वामनओघज्ञानरूपेण सह ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाः वस्तुविशेषाः संश्लेष न यान्ति, अतो व्यञ्जनम् चक्षुरुपकरणेन्द्रियनोइन्द्रिययो रूपाद्याकारपरिणतिपुद्गलानां च यत् संश्लेषरूपं तद्वयञ्जनमेवंविधं नास्ति, तदभावाच्च तदवग्रहोऽपि नास्ति, एतदाह-व्यञ्जनस्यावग्रहों न भवति । एतदुक्तं भवति - ये ते दृश्यमानाश्चिन्त्यमानाश्च वस्तुविशेषाः न ते चक्षुरिन्द्रियेणोपकरणरूपेण नोइन्द्रियेण च सह संश्लेषमिताः नेत्रस्याप्राप्य - परिच्छिद्यन्ते, यतो योग्यदेशावस्थितं वस्तु चक्षुः शरीरस्थमेव सत् कारित्वम् । परिच्छिनत्ति, न गत्वा विषयपरिच्छेदे व्याप्रियते, न वा विषयमागतं धान्यमसूरकाकृतिके इन्द्रियदेशेऽवगच्छति, अतथ लोचनमप्राप्तविषयग्राहि न खलु ग्राझेण तस्यानुग्रहोपघातानुभवो दृष्टः खान्तस्येव, नापि धान्यमसूराकृतीन्द्रियदेशबर्ति विषयपरिच्छेदि विलोचनं, यदि स्यात् ततस्तद्गतमञ्जनादि परिच्छिन्द्यात्, न च परिच्छिनत्ति, अतो निश्चीयतेऽनागतं विषयमवबुध्यते तत्, न वा गत्वा विषयदेशमित्यतो न व्यञ्जनावग्रहस्तस्य । मनसोऽप्येवमेव, न चिन्त्यमानं विषयं प्राप्य मनः चिन्तयति, न वा आगतं स्वात्मन्यवस्थितं विषयं मनः पर्यालोचयति, यदि च संश्लिष्य विषयं परिच्छिन्द्यात्
9
Jain Education International
For Personal & Private Use Only
८७
www.jainelibrary.org