________________
सूत्र १४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
७९
निमित्तमस्य मतिज्ञानस्य तदनिन्द्रियनिमित्तमिति, स्मृतिज्ञानहेतुर्मनः । एवं चैतद् द्रष्टव्यम्इन्द्रियनिमित्तमेकम्, अपरमनिन्द्रियनिमित्तम्, अन्यदिन्द्रियानिन्द्रियनिमित्तमिति त्रिधा, तत्रै कमिन्द्रियनिमित्तमेव ज्ञानं मत्याख्यम्, यथाध्वनिवारिदहनपवनवनस्पतीनामेकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणामसंज्ञिनां च पञ्चेन्द्रियाणां मनसोऽभावात्, तथाऽनिन्द्रियनिमित्तं स्मृतिज्ञानम्, इतरेन्द्रियनिरपेक्षं चक्षुरादिव्यापाराभावात्, तथा इन्द्रियानिन्द्रियनिमित्तं जाग्रदवस्थायां, स्पर्शनेन मनसोपयुक्तः स्पृशत्युष्णमिदं शीतं चेति, इन्द्रियं मनश्वोभयं तस्योत्पत्तौ निमित्तं भवति इति । तदेतत् सर्वमेकशेषाल्लभ्यत इति, इन्द्रियं चानिन्द्रियं च : इन्द्रियानिन्द्रिये इन्द्रियानिन्द्रियाणि च तानि निमित्तं यस्य तदिन्द्रियानिन्द्रियनिमित्तमिति । एतदेवाह - इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च चशब्दादुभयनिमित्तं चेति, अपेक्षाकारणं चाङ्गीकृत्य सूत्रं पपाठ आचार्यः तदिन्द्रियानिन्द्रियनिमित्तमिति । अपेक्षाकारणं चालोकविषयेन्द्रियाणि, सति प्रकाशे विषये च चक्षुरादिषु च सत्सु ज्ञानस्योद्भवो दृष्टः, तेषामपि मध्येऽन्तरङ्गमपेक्षाकारणमिन्द्रियानिन्द्रियाणि पठितम्, पारमार्थिकं तु कारणं क्षयोपशमो मतिज्ञानावरणपुद्गलानाम्, नहि तदावरणक्षयोपशममनपेक्ष्य ज्ञानस्योत्पत्तिरिष्यते । यदि तर्ह्यन्तरं निमित्तं क्षयोपशमः स एवोपादेयः किं बाह्येनेन्द्रियानिन्द्रियनिमित्तेनाधीतेनेति । उच्यते - स क्षयोपशमः सर्वसाधारण इतिकृत्वा न पठितः, चशब्देन वा गृहीतो द्रष्टव्यः, इन्द्रियनिमित्तमनिन्द्रियनिमित्तं च, चशब्दात् क्षयोपशमनिमित्तमिति, न वा, भावेन्द्रियस्य तद्रूपत्वात् इति । तत्रेन्द्रियनिमित्तं स्वयमेव भावयति -
भा०—- तत्रेन्द्रियनिमित्तं स्पर्शनादीनां पञ्चानां स्पर्शादिषु पञ्चस्वेव स्वविषयेषु । अनिन्द्रियनिमित्तं मनोवृत्तिरोघज्ञानं च ॥ १४ ॥
निमित्तता मतेः
ढी० - तत्रेन्द्रियेत्यादिना । तत्र तेषां त्रयाणां मध्ये इन्द्रियनिमित्तं तावद् भण्यतेस्पर्शनादीनामिति । स्पर्शनरसनघ्रागचक्षुः श्रोत्राणां पञ्चानामेव इन्द्रियानिन्द्रियपञ्चस्वेव इत्यन्यस्याभावान्नियमयति, स्वे- आत्मीया विषया येषु प्राणिनः सक्तिं भजन्ते तेषु स्वेषु विषयेषु तद्यथा - स्पर्शनस्य स्पर्शे, रसनस्य रसे, घ्राणस्य गन्धे, चक्षुषो रूपे, श्रोत्रस्य शब्दे, अत एषां स्पर्शनादीनां स्वविषयेषु प्रवर्तमानानां ग्राहितया यदुपजायते ज्ञानं तत् तानीन्द्रियाण्यालम्ब्योत्पद्यमानमिन्द्रियनिमित्तमिति भण्यते । इदानीमनिन्द्रियनिमित्तमाचष्टे - अनिन्द्रियं - मनस्तन्निमित्तं यस्य तदनिन्द्रियनिमित्तम् । कीदृरु तदित्याह-मनोवृत्तिर्मनोविज्ञानमिति । मनसो भावाख्यस्य वर्तनं - विषयपरिच्छेदितया परिणतिर्मनोवृत्तिः, ओघज्ञानं चेति । ओघः - सामान्यं अप्रविभक्तरूपं यत्र न स्पर्शनादीनीन्द्रियाणि तानि मनोनिमित्तमाश्रीयन्ते, केवलं मत्यावरणीय क्षयोपशम एव तस्य ज्ञानस्योत्पत्तौ निमित्तम्, यथा वल्लयादीनां नीवाद्यभिसर्पणज्ञानं न स्पर्शननिमित्तं न मनोनिमितमिति, तस्मात् तत्र मत्यज्ञानावरणक्षयोपशम एव केवलो निमित्तीक्रियते ओघज्ञानस्य ॥१४॥ १' पठन्ति ' इति ख- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org