________________
सूत्र १३] . स्वोपज्ञभाष्य-टीकालङ्कृतम् वक्ष्यामः॥१२॥ अत्राह-उक्तं भवता मत्यादीनि ज्ञानानि उद्दिश्य-तानि विधानतो लक्षणतश्च पुरस्ताद् विस्तरण वक्ष्याम इति। तदुच्यतामिति । अत्रोच्यते
टी-मिथ्यादृष्टीत्यादि । यस्मान्मिथ्यादृष्टेर्जन्तोर्मतिश्रुतावधयस्त्रयोऽपि निश्चयेन कुत्सितमेव ज्ञानमज्ञानमिति भणिष्यते । यद्येवं कथं तर्हि मतिश्रुतयोरन्तभूतानीत्युक्तम् ? उच्यते-नयवादमाश्रित्यैतदुक्तम् । केन तर्हि नयवादान्तरेण मतिश्रुतान्तर्गतानीत्याहनयवादान्तरेण तु इत्यादि । नया-नैगमादयः तेषां वादः-स्वरुचितार्थप्रकाशनं नयवादः तस्य अन्तरं-भेदो नयवादान्तरं तेन नयवादभेदेनैव । यथा मतिश्च श्रुतं च मतिश्रुते तयोविकल्पा-मेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा पुरस्तात् नयविचारणायां वक्ष्यामः (१-३५) इतिशब्देन यस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति तन्मतेन तु प्रमाणानीति ॥ १२ ॥
अत्रेति । एतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च-प्रत्यक्षपरोक्षरूपे विहिते, परोऽवोचत्-उक्तं-प्रतिपादितं त्वया, किमिति चेत्-उच्यते-मत्यादीनि पञ्च ज्ञानानि-मतिश्रुतावधिमनःपर्यायकेवलान्येव उद्दिश्य, तत इदमभिहितं तदुच्यते -तानि विधानतो लक्षणतश्च पुरस्ताद् विस्तरेण वक्ष्याम इत्येतत् ॥ ननु च नैवंविधं तत्रे सूत्रे भाष्यमस्ति-विधानतो लक्षणतश्चेति, कथमयमध्यारोपः क्रियते गुरोरिति ? । उच्यते-सत्यमेवंविधं भाष्यं नास्तीति, एवं पुनः समस्ति-प्रभेदास्त्वस्य पुरस्ताद् वक्ष्यन्त इति (१-९) । अतःप्रभेदा-मतिज्ञाने विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र भाष्ये, अतो नाध्यारोप इति । विधान-भेदः, मतिज्ञानं सभेदकं वक्ष्यामीति प्रतिज्ञातम् , तथा लक्षणम्-असाधारणं यचिहं मत्यादेस्तच्च वक्ष्यामीति प्रत्यज्ञायि, तदुच्यतां विधानं लक्षणं चेति, एवं पर्यनुयुक्त आह-अत्रोच्यत इति ॥
अत्रैतास्मंश्चोदिते उच्यते मया, लक्षणमल्पविचारत्वात् , अनेन सूत्रेण मतिः स्मृत्यादिना । अथवा नैव मतिज्ञानस्यानेन सूत्रेण लक्षणं कथयति, प्रतीतत्वात् , प्रतीतं हि लोके इन्द्रियानिन्द्रियजं ज्ञानं, यच्च प्रतीतं न तस्य लक्षणमाचक्षते विचक्षणाः, नहि हुताशनस्योप्णतालाञ्छनमत्यन्तप्रतीतत्वादभिदधते विद्वांसः, किं तर्हि सूत्रेण प्रतिपादयति ? उच्यतेलक्षणं द्विविधं तत्स्थमतत्स्थं चेति, तत्स्थमनेरौष्ण्यवत्, अतत्स्थं वारिणो बलाकादिवत् , मतिज्ञानस्य लक्षणं यत्तत्स्थं न पुनस्ततो ज्ञानाद् भिन्नमित्येतदादर्शयति सूत्रेण ॥ सूत्रम्-मतिःस्मृतिःसंज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् ॥ १-१३॥
टी-मतिः स्मृतिः संज्ञेत्यादि। अत एव च ज्ञानशब्दं प्रत्येकं लगयति
भा०–मतिज्ञानं स्मृतिज्ञानं संज्ञाज्ञानं चिन्ताज्ञानं आभिनिवाधिकज्ञानमित्यनान्तरम् ॥ १३ ॥
'तत्र' इति क-ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org