________________
नैष्ठिकाचार
है कि आत्मज्ञानी पुरुषों के उपदेश और वचनों पर श्रद्धाकर वह आत्मशक्ति पर विश्वास करे और तत्पश्चात् आत्मतत्त्व को पहिचाने, पुनः तदनुरूप आत्मप्राप्ति के लिए प्रयत्नरूप आचरण करे। उक्त कथन से सिद्ध होता है कि सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र यह क्रम ही सर्वतोभद्र है। शंकादि अष्ट दोष, आठ मद, छैः अनायतन और तीन मूढ़ता रहित स्वात्मश्रद्धा को ही शुद्ध सम्यग्दर्शन कहते हैं और सम्यग्दर्शन की शुद्धता होना ही सर्व प्रथम श्रावक की दार्शनिक प्रतिमा है।२०।२१।२२।
प्रश्न:-पञ्चविंशति दोषाः के वद दार्शनिकस्य मे। तथा तेषां स्वरूपञ्च स्वसिद्ध्यै क्रमतो गुरो।
हे गुरो! के ते पञ्चविंशतिसंख्यका दोषा ये सम्यक्त्वं दूषयन्ति तत्स्वरूपं मम हिताय कथय।
सम्यग्दर्शन को मलिन करनेवाले २५ मल दोष कौन से हैं? गुरुवर्य! मेरे हित के लिए उनका प्रतिपादन करें। उक्त प्रश्न का-प्रक्षेपक श्लोकों द्वारा समाधान किया जाता है
(अनुष्टुप्) जिनागमोक्ततत्त्वेषु शङ्का दोषो निगद्यते । पञ्चाक्षविषयेच्छा च काङ्क्षा दोषो द्वितीयकः ॥१॥ तृतीयो विचिकित्सा च मूढदृष्टिश्चतुर्थकः । परदोषप्रकाशेच्छा परपातोन्मुखैषणा ।।२।। धार्मिकेष्वपि स्यादीर्ध्या विद्वेषः सप्तमो मतः । जिनशासनकीर्तेस्तु दुर्मीढ्यादपकीर्तनम् ।।३।। अष्टैते च सुदृग्दोषाः षडनायतनानि च। त्रिमूढ़ता मदा अष्टौ संयुक्ताः पञ्चविंशतिः॥४॥ तद्विरुद्धाः गुणाः सर्वे सम्यक्त्वं पोषयन्ति ते ।
कथयाम्यधुना तेषां स्वरूपं क्रमतः शृणु ।।५।। जिनागमेत्यादिः- वीतरागहितोपदेशिसर्वज्ञत्वेन सुनिश्चितेन जिनेन्द्रेण प्रतिपादिते आगमे श्रद्धावतः सम्यग्दृशः कदाचित् मलदोषसद्भावात् तत्र तत्सत्यमसत्यं वेति संदेहो जायते तदा स शङ्का नाम दोषो वर्ण्यते। सम्यग्दृशो जिनोपदेशेन संसारकारणेषु विषयेषु विरक्तिवतः यदि तदभिलाषो भवेच्चेत् तदा काङ्क्षा नाम द्वितीयो दोषः। शरीरं मलमूत्रोत्पादकं स्वरूपतः दृष्ट्वापिरत्नत्रयपवित्रितस्य तस्य सत्कारकरणाय प्रवृत्तिमतः सम्यग्दृशः यदि कदाचित् तस्मिन् जुगुप्सा वर्तते तदा विचिकित्सा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org