SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९६ श्रावकधर्मप्रदीप उद्दिष्टाहारत्यागस्य किं चिह्न क्षुल्लकस्य हि। गुरुश्रेष्ठ ! ग्यारहवीं उद्दिष्ठत्याग प्रतिमा में क्षुल्लक का क्या स्वरूप है? कृपया कहिए (वसन्ततिलका) स्वीयेषु मातृपितृबन्धुजनेषु मोह मन्येषु क्लेशमथवा मनसा विहाय। कौपीनखण्डवसनोगुरुपार्थवर्ती स्यात् क्षुल्लकःशुचिमनाः समताभिलाषी।।२११।। स्वीयेष्वित्यादिः- स्वीयेषु मातृपितृप्रातृस्वसृमित्रकलत्रपुत्रपौत्रादिषु जनेषु मनसा मोहं विहाय ममतां परित्यज्य, अथवान्येषु स्वविरुद्धाचाराचारकेषु अमित्रनिन्दकवृथालोचकाकीर्तिकारकमिथ्याप्रवादप्रचारकेषुक्लेशंईद्विषसंक्लेशादिकञ्च परित्यज्य, गुरुपार्श्ववर्ती-नानासंक्लेशरहितत्वेन स्वयंशान्तिरूपं अन्येषामपि भवभीतित्रस्तानां शान्तिदायकं विषयेच्छाविरहितत्वात् निरारम्भपरिग्रहत्वाच्च ज्ञानाराधनतपोनुष्ठानतत्परं दिगम्बरं परमगुरुं संप्राप्य तत्पार्श्ववर्ती तत्सन्निधावेव तिष्ठन्, कौपीनखण्डवसनः-कौपीनमात्रं खण्डवसनञ्च धारयन् शुचिमनाः समताभिलाषी क्षुल्लको भवति। एकादशप्रतिमायाः उद्दिष्टाहारत्यागरूपायाः द्वौ भेदौ-क्षुल्लकः ऐलकश्च। तयोः प्रथमस्य क्षुल्लकस्येदं स्वरूपमुक्तम् । अस्यामेव प्रतिमायां श्रावकस्य द्वादशव्रतानां परिपूर्णता भवति। सः क्षुल्लकः कर्तर्या क्षुरेण वा निजमस्तकश्मश्चादीनां केशान् दूरीकरोति। मासद्वये मासत्रये मासचतुष्टये वा यदाकदाचिल्लोचमपि कुर्यात् अभ्यासार्थम् । शौचोपकरणं कमण्डलु प्रतिलेखनाय मयूरपिच्छिकां, मृदूपकरणमन्यद्वा गृह्णाति। भोजनपात्रं चै दधाति। भिक्षुकवत् श्रावकगृहमागत्य भक्तिपूर्वकं तद्दत्तमाहारं भुक्ते। रात्रौ एकान्ते सर्वाण्यपि वस्त्राणि परित्यज्य दिगम्बरसाधुवत् आत्मध्यानं करोति। चतुर्ध्वपि पर्वदिनेषु नियमतः उपवासं करोति। ब्राह्मणे क्षत्रिये वैश्ये स्पर्शशूद्रेष्वपि च भवत्येतद् व्रतम् । क्षुल्लकः खलु एकभिक्षानियमः अनेकभिक्षानियमचेति भेदद्वयमापन्नः। यत्स्वेकभिक्षानियमः स तु दिगम्बरमुनिष्वाहाराय प्रस्थितेषु तदनन्तरं भिक्षार्थमटति। क्वचिदपि एकस्मिन्नेव श्रावकगृहे यत्प्राप्तमन्नं तदेव भुंक्ते। वर्णत्रयक्षुल्लकानामेष एव विधिरिति कोषाञ्चिद् ग्रन्थकाराणां मतम् । शूद्रवर्णक्षुल्लकास्त्वनेकभिक्षानियमाः। तेऽपि अनुमुनि आहाराय गच्छन्ति। अनेकगृहेभ्यः स्वभाजने अन्नं यत्किञ्चिल्लब्ध तत्सर्वमेकत्रीकृत्य यत्रापि प्रासुकमम्भो लभेत तत्रैव भुञ्जन्ति। कैश्चिद्ग्रंथकारैस्तु न कृत एष भेदः। ते सामान्यतया चतुर्वर्णेष्वपि क्षुल्लकेषु उभौ भेदौ वर्णयन्ति। क्षुल्लको मौनपूर्वकमेव श्रावकगृहमागच्छति। मौनेनैव किञ्जत्कालं क्षणमात्रं वा तत्र बहिरेव स्थित्वा निर्गच्छति। एतदन्तरे यदि केनचित् श्रावकेण आहाराय प्रतिगृहीतस्तर्हि तत्रैव तिष्ठति। अन्यथान्यद्गृहं गच्छति। धर्मलाभो भवतु इत्येवमाशीर्वचनमुच्चार्य अहमत्रागत इति संकेतं प्रदाय अन्यत्र गच्छेत् इत्यपि केषांचिदाचार्याणमभिमतम्। प्रतिग्रहानन्तरं श्रावकस्तं उच्चासने विनिवेशयेत् अशिक्षालनञ्च कुर्यात् । यथायोग्यं सम्मानादिकं प्रदाय विनयेन Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004002
Book TitleShravak Dharm Pradip
Original Sutra AuthorN/A
AuthorJaganmohanlal Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1997
Total Pages352
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy