SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री कुन्थुसागरविरचितः पण्डितजगन्मोहनलालसिद्धान्तशास्त्रिप्रणीतया प्रभाख्यया संस्कृत-हिन्दी- व्याख्यया विभूषितः श्रावकधर्मप्रदीपः ( श्रावकाचार: ) ग्रन्थकृतो मङ्गलाचरणं प्रतिज्ञा च (अनुष्टुप्) श्रीदं नत्वा जिनं भक्त्या कुन्दकुन्दमुनीश्वरम् । सदा शान्तिसुधर्मौ च श्राद्धसद्बोधहेतवे ॥ | १ || श्रावकधर्मप्रदीपो ग्रन्थोऽयं सौख्यदो भुवि । लिख्यते स्वात्मतुष्टेन कुन्थुसागरसूरिणा ||२|| युग्मम् । टीकाकृतो मङ्गलाचरणमहङ्कारपरिहारश्च श्री कुन्थुस्वामिनं नत्वा सूरिवर्य्यं गुणोदधिम् । टीकां करोमि ग्रन्थस्य महतो लघुधीरपि । । १ । । तच्चरणाब्जसम्पर्कात् प्रत्यूहव्यूहवर्जितः । भविष्यामि समर्थोऽहमित्याशा हृदि वर्तते । । २ । । श्रीदमित्यादि - श्रियम् अनन्तज्ञानादिस्वरूपलाभात्मिकामन्तरङ्गां समवशरणादिलक्षणां चक्रवर्त्यादिविभूतिभूषितां वा व्यवहारलक्ष्मीं ददातीति श्रीदस्तम् । कर्मारातीञ् जयतीति जिनस्तम् श्रीवृषभादिमहावीरान्तचतुर्विंशतितीर्थकरनिकरमिति यावत् । भक्त्या भक्तिपूर्वकं हर्षप्रकर्षपुरस्सरम् । नत्वा नमस्कारं कृत्वा; मूलधर्मोपदेशकत्वात्तेषामेव प्रथमनमस्कारार्हत्वात् । तत्पश्चात् तदुपदेशानुसारेण स्वपरोपकारनिरताञ् श्रीकुन्दुकुन्दप्रमुखान् सूरीन् मुनीश्वरान् नत्वा । ततः श्रीकुन्दकुन्दादिस्वामिनिरूपितपरम्परायातसद्धर्माराधकं श्रीमन्तं तपोनिधिं दक्षिणप्रान्तविहारिणं स्वदीक्षागुरुम् आचार्यशान्तिसागरस्वामिनं तथोत्तरप्रान्तविहारिणं विद्यागुरुं श्रीसुधर्मसागरमाचार्य्यमपि नत्वा । श्रद्धया सहिताः सम्यग्दर्शनादिगुणसम्पन्ना ये श्राद्धाः श्रावकाः तेषां सद्बोधहेतवे कर्तव्याकर्तव्यविषयेषु विवेकसम्प्राप्त्यर्थम् ॥ १ ॥ भुवि संसारे । सौख्यं ददातीति सौख्यदः । श्रावकाणां धर्ममार्गप्रकाशने प्रदीपरूपत्वात् 'श्रावकधर्मप्रदीपः' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004002
Book TitleShravak Dharm Pradip
Original Sutra AuthorN/A
AuthorJaganmohanlal Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1997
Total Pages352
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy