SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६२ श्रावकधर्मप्रदीप चाहिए। अतएव ऐसी स्थिति में मौनपूर्वक ही पञ्चनमस्कार मंत्र का स्मरण करे। स्मरण करने का त्रिकाल में भी निषेध नहीं है। अशुद्ध मनुष्य भी परमात्मा के स्मरण से पवित्र हृदय बन जाता है। इसलिए परमपूज्य पञ्चपरमेष्ठी का स्मरण करके शरीरादि की अपवित्रता और उस निमित्त से अपनी आत्मा की पराधीनता को विचार कर अन्यत्वभावना द्वारा आत्मा को शरीरादि से पृथक् चिन्तवन कर शुद्धस्वरूप का ध्यान करे। ऐसा करनेवाले महापुरुष की आधि, व्याधि, विध्न, अनिष्ट और भय सब जड़ सहित नाश को प्राप्त हो जाते हैं।११८।११९। (अनुष्टुप्) ततः प्रातर्विधिं कृत्वा पूजां दानं तथैव च । स्वर्मोक्षदं मुदा स्तोत्रं स्वाध्यायं स्वात्मदर्शकम् ।।१२०।। पश्चाद्धि भोजनं कुर्यात् तथान्यां शान्तिदां कृतिम् । यतः स्यात्सफलं जन्म भवबन्धनभेदनम् ।।१२१।।युग्मम्।। तत इत्यादि:- तदनन्तरं प्रातर्विधिं दन्तधावनं तैलमर्दनं स्नानं च कृत्वा सामायिकं कुर्यात् । ततः स्वगृहाज्जलगन्धाक्षतादिद्रव्यमादाय ईर्यापथसंशुद्ध्या जिनालयं गच्छेत्। तत्र श्रीजिनालयस्य शिखरं दृष्ट्वा प्रहृष्टमनाः स्वजीवनस्य साफल्यं विचार्य निःसही इति त्रिवारमुच्चरन् जिनालये प्रविशेत्। मार्गस्पर्शात् समलं पादादिकं जलादिना पवित्रीकृत्य श्रीपरमपुरुषस्य स्वर्मोक्षदं स्तोत्रं मुदा पठन् दर्शनं कुर्यात्। ततः अष्टविधार्चनया जिनं संपूज्य शान्तिमाधाय इष्टं प्रार्थ्य स्वजन्मनस्साफल्यम्मन्यमानस्तत्र स्वात्मदर्शकं स्वाध्यायं कुर्यात् । यदि तत्र भाग्योदयात् परमगुरोः उपदेशलाभस्य संयोगः स्यात् तदावश्यमेव तद्वचनानि समाकार्य प्रमादादिना कृतान् स्वदोषान् तत्र निवेद्य प्रायश्चित्तस्वरूपं तत्प्रदत्तं प्रायश्चित्तं च स्वीकृत्य प्रणामं कुर्यात् । तत्र स्वधार्मिकानवलोक्य प्रफुल्लितवदनः तैः सह प्रेमालापेन किञ्चित्कालं यापयित्वा अर्थिभ्यो यथायोग्यं साहाय्यं प्रदाय गृहमागच्छेत् । ततो नानाविधैरूपायैः हिंसादिमहापापविरहितैराजीविकां संपाद्य द्वारप्रेक्षणं कुर्यात्। उत्तमपात्रलाभे सति भक्त्या विनयपूर्वकमाहारदानं दद्यात् । तदलाभे मध्यमपात्राय जघन्यपात्राय वा तदलाभे दरिद्राय हीनपुण्याय दयापात्राय आहारादिद्रव्यं प्रदाय स्वगृहेऽपि स्वाश्रितान् भोजयित्वा मौनेन भुञ्जीत। दिवसमध्ये यथायोग्यं व्यापारादिकं विधाय सन्ध्यातः पूर्वमेव भोजनादिकञ्च विधाय सन्ध्यायां सामायिकं कुर्यात्। धार्मिकैः सह धर्मवार्ता जिनदर्शनपूर्वकं यथायोग्यानां शास्त्राणाञ्च वाचनं कुर्यात् । एतत्सर्वं विधाय यथासमयं पञ्चपरमेष्ठिनां स्मरणपूर्व शयीत। इत्येवंप्रकारेण साधारणी दिनचर्या प्ररूपिता। विशेषरूपेण तु यथा धर्मपरिपालनं स्यात् तथा अन्यान्यपिशान्तिदायकानि स्वपरोन्नतिशीलानि कार्याणि कुर्यात् यतः भवबन्धनं शिथिलं संजायेत तथा मानवजन्मनोऽपि साफल्यं स्यात् । १२०।१२१। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004002
Book TitleShravak Dharm Pradip
Original Sutra AuthorN/A
AuthorJaganmohanlal Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1997
Total Pages352
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy