SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका, २१ कलिव्यालवह्निग्रहव्याधिचौरव्यथावारण व्याघ्र वैर्यादिविघ्नाः । यदाज्ञाजुषां युग्मिनां जातु न स्युः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २५ ॥ अबद्धस्तथैकः स्थिरो वा क्षयी वाप्यसङ्गो मतो यैर्जडे : सर्वथात्मा । न तेषां विमूढात्मनां गोचरो यः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २६ ॥ न वा दुःखगर्भे न वा मोहगर्भ स्थिता ज्ञानगर्भ तु वैराग्यतत्त्वे 1 यदाज्ञानिलीना ययुर्जन्म पारं स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २७ ॥ विहायाश्रवं संवरं संश्रयैवं यदाज्ञा पराभाजि यैर्निर्विशेषः । स्वकस्तरकार्येव मोक्षो भवो वा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २८ ॥ शुभध्याननीरैरुरीकृत्य शौचं सदाचारदिव्यांशुकैर्भूषिताङ्गाः । बुधाः केचिदर्हन्ति यं देहगेहे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २९ ॥ दयासूनृतास्तेय निःसङ्गमुद्रात पोज्ञानशीलंगुरूपास्तिमुख्यैः । सुमैरष्टभिर्यो ऽर्च्छते धाम्नि धन्यैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३० ॥ महार्चिर्धनेशो महाज्ञामहेन्द्रो महाशान्तिभर्ता महासिद्धसेनः । महाज्ञानमत्स्यावनी मूर्तिरर्हन् स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३१ ॥ महाब्रह्मयोनिर्महासत्त्वमूर्तिर्महाहंसराजो महादेवदेवः । महामोहजेता महावीरनेता स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३२ ॥ 169 इत्थं ये परमात्मरूपमनिशं श्रीवर्धमानं जिनं वन्दन्ते परमार्हतास्त्रिभुवने शान्तं परं दैवतम् । तेषां सप्तभियः क्व सन्ति दलितं दुःखं चतुर्धापि तैर् मुक्तैर्यगुणानुपेत्य वृते तांश्चक्रिशक्रश्रियः ॥ ३३ ॥ ॥ इति महावीरद्वात्रिंशिका एकविंशतितमी ॥ २१ ॥ ॥ इति श्रीसिद्धसेनदिवाकरविरचिता एकविंशतिद्वात्रिंशिकाः समाप्ताः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy