SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 168 जगत्संभवस्थेमविध्वंसरूपैरलीकेन्द्रजालैर्न यो जीवलोकम् । महामोहकूपे निचिक्षेप नाथः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ११ ॥ समुत्पत्तिविध्वंसनित्यस्वरूपा यदुत्था त्रिपद्येव लोके विधित्वम् । हरत्वं हरित्वं प्रपेदे स्वभावैः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १२ ॥ द्वात्रिंशिका, २१ त्रिकालत्रिलोकत्रिशक्तित्रिसन्ध्यत्रिवर्गत्रिदेवत्रिरत्नादिभावैः । यदुक्ता त्रिपद्येव विश्वानि वव्रे स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १३ ॥ यदाज्ञा त्रिपद्येव मान्या ततो ऽसौ तदस्त्येव नो वस्तु यन्नाधितष्ठौ । अतो महे विश्वमेतद्यदीयं स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १४ ॥ न शब्दो न रूपं रसो नापि गन्धो न न स्पर्शलेशो न वर्णो न लिङ्गम् । न पूर्वापरत्वं न यस्यास्ति संज्ञा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १५ ॥ छिदा नो भिदानो न क्लेदो न खेदो न शोषो न दाहो न तापादिरापत् । न सौख्यं न दुःखं न यस्यास्ति वाञ्छा स एकः परात्मा गतिर्मे जिनन्द्रः ॥ १६ ॥ न योगा न रोगा न चोद्वेगवेगाः स्थितिर्नो गतिर्नो न मृत्युर्न जन्म । न पुण्यं न पापं न यस्यास्ति बन्धः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १७ ॥ तपः संयमः सनृतं ब्रह्म शौचं मृदुत्वार्जवाकिंचनत्वानि मुक्तिः । दुक्त जयत्येव धर्मः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १८ ॥ अहो विष्टपाधारभूता धरित्री निरालम्बनाधारमुक्ता यदास्ते । अचिन्त्यैव यद्धर्मशक्तिः परा सा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ १९॥ न चाम्भोधिराप्लावयेद्भूतधात्रीं समाश्वासयत्येव काले ऽम्बुवाहः । यदुद्भूतसद्धर्मसाम्राज्यवश्यः स एकः परात्मा गतिमें जिनेन्द्रः ॥ २० ॥ न तिर्यग्ज्वलत्येव यज्जालजिह्वो यदूर्ध्वं न वाति प्रचण्डो नभस्वान् । स जागर्ति यद्धर्मराजप्रतापः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २१ ॥ sat gष्पदन्तौ जगत्यत्र विश्वोपकाराय दिष्टयोदयेते वहन्तौ । उरीकृत्य यत्तुर्यलोकोत्तमाज्ञां स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २२ ॥ अवत्येव पातालजम्बालपाताद्विधत्ते ऽपि सर्वज्ञलक्ष्मीनिवासात् । यदाज्ञाविधित्सा श्रितानङ्गभाजः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २३ ॥ सुपर्वद्रचिन्तामणिकामधेनुप्रभावा नृणां नैव दूरे भवन्ति । चतुर्थेथे शिवे भक्तिभाजा स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003992
Book TitleNyayavatara and Nayakarnika
Original Sutra AuthorN/A
AuthorSiddhasena Divakar, Vinayvijay, A N Upadhye
PublisherJain Sahitya Vikas Mandal
Publication Year1971
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy