________________
लूणवसतिलेखाः ।
( ३६० )
श्री सुमतिनाथस्य । कल्याणकानि ॥ छ ।
१ श्रावणशुदि २ चवणं
२ वैशाष ( ख ) शुद्धि ८ जन्म
३ वैशाष ( ख ) शुदि ९ दीक्षा
४ चैत्रशुदि ११ ज्ञानं ॥ ५ चैत्रशुदि ९ मोक्ष | ( ३६१ )
॥ ६० ॥ स्वस्ति श्रीविक्रमनृपात् संवत् १२९१ वर्षे ॥ श्रीषंडेरक गच्छे महति यशोभद्रसूरि संताने । श्री शांतिसूरिरास्ते तच्चरणसरोजयुगभृंगः ॥ १ ॥ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः
'कृतोरुगुरुरैवतप्रमुखतीर्थयात्रोत्सवः । दधत्क्षितिभृतां मुदे ( * ) विशदधीः स दुःसाधता
मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः || २ ||
तगजन्मास्ति कवींद्र बंधुत्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्यविरोधशांत्यर्थमिवाश्रितो यः ॥ ३ ॥ तेन सुमतिना मातुः श्रेयोर्थ कारिता कृतज्ञेन । श्रीपद्मप्रभ (*) बिंबालंकृतसदेवकुलिकेयं ॥ ४ ॥ छ ॥ ६०३ ॥ छ ॥
Jain Education International
१४७
For Personal & Private Use Only
www.jainelibrary.org