________________
विमलवसतिलेखाः ।
आसीद् ध्वस्तसमस्त पापनिचयो वित्तो वरिष्ठाशयः
'धन्या (न्यो) धर्मनिबद्धसु (शु) द्धद्विषि (विष)णः स्वाम्नायलोकाग्रणीः॥ २ ॥
सकलनयविधिज्ञो भावतो देव-साधुप्रतिदिनमतिभक्तो दानशीलो दयालुः । विदित जनमतोल धर्मकर्मानुरक्तो
लहर इति सुपुत्रस्तस्य जातः पवित्रः ॥ ३ ॥
प्रावा (ना) जीज्जितदर्पितारिनिचयो यो जैनमार्गे परं (र)मार्हत्यं सुविशुद्धमन्वयवशप्राप्तं समारात्य (ध्य) च । श्रीमन्मूलनरेंद्रसंनिधिसुधानिस्फंदसंसेकित
प्रज्ञापात्रमुद्रात्तदानचरितस्तत्सूनुरासीद ( द्व) रः ॥ १ ॥ निजकुलकमलदिवाकरकल्पः सकलार्थिसार्थकल्पतरुः । श्रीमद्वोरमहत्तम इति यः ख्यातः क्षमावलये ॥ ५ ॥
श्रीमने वो धीरता आसीन्मंत्री जैनधर्मै कनिष्ठः । आद्यः पुत्रस्तस्य मानी महेच्छः त्यागी भोगी बंधुपद्माकरेदुः || ६ ||
द्वितीयको द्वैतमतावलंबी दंडाधिपः श्रीविमलो बभूव । येनेदमुच्चैर्भवसिंधु सेतुकल्पं विनिर्मापितमत्र वेश्म ॥ ७ ॥
धर्माराममतिर्विवेकवसतिर्गाभीर्यपाथोनिधिः दीनानाथपरोपकारकरणव्यापारबद्धादृतिः ।
Jain Education International
२५
For Personal & Private Use Only
www.jainelibrary.org