________________
यश्चैवंविधमात्मानमेकाग्रमनसा नावये. त्तस्यैव मुक्तिर्नान्यस्येत्याह । मुक्तिरिति । एकान्तिकी अवश्यं नाविनी।तस्यान्तरात्मनो मुक्तिर्यस्य चित्ते अचला अविचला धृतिः प्रात्मस्वरूपधारणं स्वरूप विषया प्रसतिर्वा । यस्य तु चित्ते नास्त्यचला धृतिस्तस्य नैकान्तिकी मुक्तिः ॥७॥
जनेभ्यो वाकृतः स्पन्दो मनसश्चित्रविभ्रमाः। भवन्ति तस्मात्संसर्ग
जनर्योगीततस्त्यजेत् ॥७॥ चित्तेऽचला धृतिश्च लोकसंसर्गपरित्यज्यात्मस्वरूपस्य संवेदनानुनवे सति स्यानान्यथेति दर्शयन्नाह । जनेभ्य इति । जनेभ्यो वाक् वचनप्रवृत्तिवति । ततो व
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org