________________
( ५४ ) तदस्य ज्योतिरुत्तमम् ॥ १२ ॥ कुतः पुनरात्मज्ञानमेव बुद्धौ धारयेन्न शरीरादिकमित्याह । यदिति । यारीरादिकमिन्द्रियैः पश्यामि तन्मे नास्ति मदीयं रूपं तन्न भवति । तर्हि किं तव रूपं तदस्तु । ज्योतिरुत्तमं ज्योतिर्ज्ञानमुत्तममतीन्दियम् । तथा सानन्दं परमप्रसत्तिसमुद्भूतसुखसमन्वितम् । एवंविधं ज्योतिः अन्तः पश्यामि स्वसंवेदनेनानुभवामि । यत्तन्मे स्वरूपमस्तु नवतु । विशिष्टः पश्यामि । नियतेन्द्रियो निर्यन्त्रितेन्द्रियः ॥ ५१ ॥ सुखमारब्धयोगस्य बहि: खमथात्मनि । बहिरेवासुखं सौख्यमध्यात्मं जावितात्मनः ॥५२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org