SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ ६९४ [ ६. नयपरि गम्भीरं निखिलार्थगोचरमलं शिष्यप्रबोधप्रदम्, यद्व्यक्तं पदमद्वितीयमखिलं माणिक्यनन्दिप्रभोः । तद्व्याख्यातमदो यथावगमतः किञ्चिन्मया लेशतः, स्थेयाच्छुद्धधियां मनोरतिगृहे चन्द्रार्कतारावधि ॥ १ ॥ ५ मोहध्वान्तविनाशनो निखिलतो विज्ञानशुद्धिप्रदः, मेयानन्तनभोविसर्पणपटुर्वस्तूक्तिभाभासुरः । शिष्याब्जप्रतिबोधनः समुदितो योऽद्रेः परीक्षामुखात्, जीयात्सोत्र निबन्ध एष सुचिरं मार्त्तण्डतुल्यो मलः ॥ २ ॥ गुरुः श्रीनैन्दिमाणिक्यो नन्दिताशेषसज्जनः । नन्दतादुरितैकान्तरजाजैनमतार्णवः ॥ ३ ॥ श्रीपद्म नन्दि सैद्धान्तशिष्योऽनेकगुणालयः । प्रभाचन्द्रश्चिरं जीयाद्वत्तनन्दिपदे रतः ॥ ४ ॥ श्रीभोजदेवराज्ये श्रीमद्धारानिवासिना परापरपरमेष्ठिपदप्रणामार्जितामलपुण्यनिराकृत निखिलमलकलङ्केन श्रीमत्प्रभाचन्द्रनिखिलप्रमाणप्रमेयस्वरूपोद्योत परीक्षामुख पदमिदं १० प्रमेयकमलमार्त्तण्डे १५ us विवृतमिति ॥ ( इति श्रीप्रभाचन्द्रविरचितः प्रमेयकमलमार्त्तण्डः समाप्तः ) || शुभं भूयात् ॥ १ अथेदानीं माणिक्यनन्दिपदव्यावर्णनपूर्वकं तत्पदाशीर्वादपूर्वकं चात्मनः प्रारब्धनिर्वहणमौद्धत्यपरिहारं च सूचयन्नाह गम्भीरेत्यादि । २ अप्रमितम् । ३ मार्त्तण्ड इत्यस्योपपत्तिं दर्शयति । ४ स्वस्य । ५ माणिक्यनन्दी | For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy