SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ श्री। अथ षष्ठः परिच्छेदः ॥ प्राचां वाचाममृततटिनीपूरकर्पूरकल्पाने, बन्धान(न्म)न्दा नवकुकवयो नूतनीकुर्वते ये। तेऽयस्काराः सुभटमुकुटोत्पाटिपाण्डित्यभाजम् , भित्त्वा खगं विद्धति नवं पश्य कुण्ठं कुठारम् ॥ ५ ननूक्तं प्रमाणेतरयोर्लक्षणमसूणं नयेतरयोस्तु लक्षणं नोक्तम् , तञ्चावश्यं वक्तव्यम् , तदवचने विनेयानां नाऽविकला व्युत्पत्तिः स्यात् इत्याशङ्कमानं प्रत्याह सम्भवदन्यद्विचारणीयम् ॥ ६७४ ॥ इति। १० सम्भवद्विद्यमानं कथितात्प्रमाणतदाभासलक्षणादन्यत् नय नयाभासयोर्लक्षणं विचारणीयं नयनिष्ठुर्दिग्मात्रप्रदर्शनपरत्वादस्य प्रयासस्येति । तल्लक्षणं च सामान्यतो विशेषतश्च सम्भवतीति तथैव तद्वघुत्पाद्यते । तत्राऽनिराकृतप्रतिपक्षो वस्त्वंशग्राही ज्ञातु. रभिप्रायो नयः । निराकृतप्रतिपक्षस्तु नयाभासः । इत्यनयोः १५ सामान्यलक्षणम् । स च द्वेधा द्रव्यार्थिक-पर्यायार्थिकविकल्पात् । ट्रॅव्यमेवार्थो विषयो यस्यास्ति स द्रव्यार्थिकः । पर्याय एवार्थो यस्यास्त्यसौ पर्यायार्थिकः । इति नयविशेषलक्षणम् । तत्रायो नैगमसङ्ग्रहव्यवहारविकल्पात् त्रिविधः । द्वितीयस्तु ऋजुसूत्र शब्दसमभिरूद्वैवंभूतविकल्पाच्चतुर्विधः। २० तत्रानिष्पन्नार्थसङ्कल्पमात्रग्राही नैगमः । निगमो हि सङ्कल्पः, तत्र भवस्तत्प्रयोजनो वा नैगमः । यथा कश्चित्पुरुषो गृहीतकुठारो गच्छन् 'किमर्थं भवान्गच्छति' इति पृष्टः सन्नाह-प्रेस्थमानेतुम्' इति । एंधोदकाद्याहरणे वा व्याप्रियमाणः 'किं करोति भवान्' इति पृष्टः प्राह-'ओदनं पचामि' इति । न चासौ प्रस्थप. १ कल्पः सदृशः । २ 'बन्धान्' इति विशेष्यपदमध्याहार्यम् । ३ परीक्षामुखस्य । ४ प्रकरणस्य । ५ विकलादेशविशेषमाश्रित्य प्रवृत्तो शातुरभिप्रायो ( ज्ञानस्वरूपः) नयः । ६ सामान्यलक्षणलक्षितो नयः। ७ द्रवति द्रोष्यत्यऽदुद्रुवच्चेति द्रव्यं जीवादि। ८ जीवस्य यथा नरनारकादिः सुखदुःखादिर्वा । ९ प्रस्थो मानविशेषः। १० एधः= काष्ठम् । दकमुदकम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy