________________
६७४
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० कथं चैवं वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहवैयर्थ्य न स्यात् ? कचिदेकत्रापि पक्षे साधनसामर्थ्यज्ञानाज्ञानयोः सम्भवात् । न खलु शब्दादौ नित्यत्वस्यानित्यत्वस्य वा परीक्षायाम् एकस्य साधनसामर्थ्य ज्ञानमन्यस्य चाज्ञानं जयस्य पराजयस्य वा ५निबन्धनं न सम्भवति । युगपत्साधनसामर्थ्यस्य ज्ञानेन वादिप्रतिवादिनोः कस्य जयः पराजयो वा स्यात्तदविशेषात् ? न कस्यचिदिति चेत्, तर्हि साधनवादिनो वचनाधिक्य. कारिणः साधनसामर्थ्याऽज्ञानसिद्धेः प्रतिवादिनश्च वचनाधिक्यदोषोद्भावनात्तदोषमात्रे ज्ञानसिद्धेर्न कस्यचिजयः पराजयो वा १० स्यात् । न हि यो यद्दोषं वेत्ति स तहणमपि, कुतश्चिन्मारणशक्तिवेदनेपि विषद्रव्यस्य कुष्ठापनयनशक्तौ संवेदनानुदयात् । तन्न तत्सामर्थ्यशानाज्ञाननिवन्धनौ जयपराजयौ शक्यव्यवस्थौ यथोतदोषानुषङ्गात् । स्वपक्षसियसिद्धिनिबन्धनौ तु तौ निरवद्यौ
पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् । कस्यचित्कुतश्चित्वपक्षसिद्धौ १५ सुनिश्चितायां परस्य तत्सियभावतः सकृजयपराजयाप्रसङ्गात् ।
यच्चेदम्-'अदोषोद्भावनम्' इत्यस्य व्याख्यानम्-"प्रसज्यप्रतिषेधे दोषोद्भावनाऽभावमात्रमदोषोद्भावनम्, पर्युदासे तु दोषाभासानामन्यदोषाणां चोद्भावनं प्रतिवादिनो निग्रहस्थानम्"
] इति तद्वादिना दोषवति साधने प्रयुक्त २० सत्यनुमतमेव, यदि वादी स्वपक्षं साधयेत् , नान्यथा । वचनाधिक्यं तु दोषः प्रांगेव प्रतिविहितः। यथैव हि पश्चावयवप्रयोगे वचनाधिक्यं निग्रहस्थानम् , तथा व्यवयवप्रयोगे न्यूनतापि स्याद्विशेषाभावात् । प्रतिज्ञादीनि हि पश्चाप्यनुमानाङ्गम्-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः” [न्यायसू० २१॥३२] इत्य२५ भिधानात् । तेषां मध्येऽन्यतमस्याप्यनभिधाने न्यूनताख्यो दोषो
नुषज्यत एव । “हीनमन्यतमेनापि न्यूनम्" [न्यायसू० ५।२।१२] इति वचनात् । ततो जयेतरव्यवस्थायाः 'प्रमाणतदाभासौ' इत्यादितो नान्यनिबन्धनं व्यवतिष्ठते, इत्येतच्छलादौ तन्निबन्धनत्वेना.
ग्रहग्रहं परित्यज्य विचारकभावमादायाऽमलमनसि प्रामाणिकाः ३० स्वयमेव सम्प्रधारयन्तु, कृतमतिप्रसङ्गेन ।
. १ वादिनः। २ प्रतिवादिनः। ३ अत्यन्ताभावमात्रम् । ४ प्रतिवादिना । ५ वचनाधिक्यदोषनिराकरणसमये । ६ योगस्य । ७ सौगतस्य । ८ निग्रहस्थानम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org