________________
६६०
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० कायां जातौ साधनाभासवादी स्वप्रयुक्तसाधनदोषं पश्यन् सभा. यामेवं ब्रूयात् 'मया प्रयुक्ते साधनेऽयं दोषःस चानेन नोद्भावितः, जातिस्तु प्रयुक्ता' इति तदा तावजातिवादिनो न जयः प्रयोज. नम्; उभयोरज्ञानसिद्धः। नापि साम्यम् । सर्वथा जयस्यासम्भवे ५तस्याभिप्रेतत्वात् “ऐकान्तिकं पराजयाद्वरं सन्देहः" [ ] इत्यभिधानात् । तदप्रयोगेपि चैतत्समानम्-पूर्वपक्षवादिनो हि साधनाभासाभिधाने प्रतिवादिनश्च तूष्णींभावे यत्किञ्चिदभिधाने वा द्वयोरज्ञानप्रसिद्धितः प्राश्निकैः साम्यव्यवस्थापनात् । यदा च साधनाभासवादी स्वसाधने दोषं प्रच्छाद्य परप्रयुक्तां जातिमेवो१०द्भावयति तदा न तद्वादिनो जयः साम्यं वा प्रयोजनम् । पराजयस्यैव सम्भवात्।
अथ साधनाभासमेतदित्यप्रतिपाद्य जातिं प्रयुङ्क्ते तथाप्यफल. स्तत्प्रयोगःप्रोक्तदोषानुषङ्गात् । सम्यक्साधने तु प्रयुक्ते तत्प्रयोगः पराजयायैव । अथ तूष्णींभावे पराजयोऽवश्यंभावी, तत्प्रयोगे तु १५ कदाचिदसदुत्तरेणापि निरुत्तरः स्यात् इत्यैकान्तिकपराजयाद्वरं
सन्देह इत्यसौ युक्त एवेति चेत्, न; तथाप्यैकान्तिकपराजयस्यानिवार्यत्वात् । यथैव ह्युत्तरपंक्षवादिनस्तूष्णींभावे सत्युत्तराsप्रतिपत्त्या पराजयः प्राश्निकैर्व्यवस्थाप्यते तथा जातिप्रयोगेप्युत्तराप्रतिपत्तेरविशेषात् , तत्प्रयोगस्यासदुत्तरत्वेनानुत्तरत्वात् । २० ननु चास्य पराजयस्तैर्व्यवस्थाप्येत यद्युत्तराभासत्वं पूर्वपक्षवाधुद्भावयेत् , अन्यथा पर्यनुयोज्योपेक्षणात्तस्यैव पराजयः स्यात् । नन्वेवमुत्तराभासस्योत्तरपक्षवादिनोपन्यासेपि अपरस्योद्भावनशत्यशक्त्यपेक्षया जयपराजयव्यवस्थायामनवस्था स्यात् । न खलु
जातिवादिवदस्यापि तूष्णींभावः सम्भवति, सम्यगुत्तराप्रतिपत्ता२५वपि उत्तराभासस्योपन्याससम्भवात् । ततश्चोपन्यस्तजातिवरूपस्यातोऽन्यस्य चोद्भावनेपि उत्तरपक्षवादिनस्तत्परिहारे शक्तिमशक्ति चापेक्ष्यैव पूर्वपक्षवादिनो जयः पराजयो वा व्यवस्थाप्येत जातिवादिन इवेतरस्योद्भावनशक्त्यशक्यपेक्ष इति ।
जातिलक्षणासदुत्तरप्रयोगादेव तत्परिहाराशक्तिनिश्चयात् पुनरु३०पन्याँसवैफल्ये सत्साधनाभिधानादेवोत्तराभासत्वोद्भावनशक्तेरः प्यवसायाद् इतरस्यापि कथं तद्वैफल्यं न स्यात् ? सत्साधनाभिघानात्तदभिधानसामर्थ्य मेवास्यावसीयते न परोपन्यस्तजात्युद्धा.
१ पराजयायैव न जयायेति । २ वादिना । ३ प्रतिवादिनः। ४ जातिवादिनः । ५ त्वया जातिः प्रयुक्तेति वचनीयं तस्योपेक्षणात्। ६ तस्य उद्भावितस्य । ७ उपन्यासो हि जातेः। ८ निश्चयात् । ९ तस्य जात्युद्भावनस्य ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org