________________
५७४
प्रमेयकमलमार्तण्डे [४. विषयपरि० एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात्प्रयत्नवत् । न चास्य क्रियाहेतुत्वमसिद्धम् ; तथाहि-अग्नेरूप्रज्वलनं वायोस्तियक्पवनमणुमनसोश्चाद्यं कर्म देवदत्तविशेषगुणकारितं कार्यत्वे सति तदुपकारकत्वात् पाण्यादिपरिस्पन्दवत् । नाप्येकद्रव्यत्वम्; तथाहि५एकद्रव्यमदृष्टं विशेषगुणत्वाच्छब्दवत् । 'एकद्रव्यगुणत्वात्' इत्युच्यमाने रूपादिभिर्व्यभिचारः, तन्निवृत्त्यर्थ 'क्रियाहेतुगुणत्वात्' इति विशेषणम् । 'क्रियाहेतुगुणत्वात्' इत्युच्यमाने हस्तमुसलसंयोगेन स्वाश्रयासंयुक्तस्तम्भादिक्रियाहेतुनानेकान्तः, तन्निवृत्त्यर्थम् 'एकद्रव्यत्वे सति' इति । 'एकद्रव्यत्वे सति क्रियाहेतुत्वात्' १० इत्युच्यमाने स्वाश्रयांसंयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेनानेकान्तः, तत्परिहारार्थ 'गुणत्वात्' इत्युक्तम् ।'
तदेतदप्यविचारितरमणीयम्; अदृष्टस्य गुणत्वप्रतिषेधात्, अतो विशेष्यासिद्धो हेतुः । विशेषणासिद्धश्च; एकद्रव्यत्वाप्रसिद्धेः । तद्धि किमेकस्मिन्द्रव्ये संयुक्तत्वात्, समवायेन वर्तमा१५ नात्, अन्यतो वा स्यात्? न तावत्संयुक्तत्वात् ; संयोगस्य गुणत्वेन
द्रव्याश्रयत्वात् , अदृष्टस्य चाद्रव्यत्वात् । अन्यथा गुणवत्त्वेनास्य द्रव्यत्वानुषङ्गात् 'क्रियाहेतुगुणत्वात्' इत्येतद्विघटते । समवायेन वर्तनं च समवाये सिद्ध सिद्धयेत्, स चासिद्धः, अग्रे निषेधात् ।
तृतीयपक्षस्त्वनभ्युपगमादेव न युक्तः। २० क्रियाहेतुत्वं चास्याऽनुपपन्नम्। तथा हि-देवदत्तशरीरसंयुक्तात्मप्रदेशे वर्तमानमदृष्टं द्वीपान्तरवर्त्तिषु मणिमुक्ताफलप्रवालादिषु देवदत्तं प्रत्युपसर्पणवत्सु क्रियाहेतुः, उत द्वीपान्तरवर्तिद्रव्यसंयुक्तात्मप्रदेशे, किं वा सर्वत्र ? तत्राद्यपक्षस्यानभ्युपगम एव श्रयान् , अतिव्यवहितत्वेन द्वीपान्तरवर्त्तिद्रव्यैस्तस्यानभिसम्बन्धेन २५तत्र क्रियाहेतुत्वायोगात् । ननु खाश्रयसंयोगसम्बन्धसम्भवात्ते
षोमनभिसम्बन्धोऽसिद्धः, अमुमेव ह्यात्मानमाश्रित्यादृष्टं वर्तते, तेन संयुक्तानि सर्वाण्यप्याकृष्यमाणद्रव्याणि; इत्यप्ययुक्तम् । तस्य
१ एकद्रव्यमात्मा, यसः। २ यसः । ३ आत्ममनसोः सर्वथा भेदात् । ४ अणुमनसोः शरीरोत्पत्तिदेशं प्रति गमनक्रिया। ५ असिद्धमिति संबन्धः। ६ पुद्गललक्षणैकद्रव्यं रूपं यतः। ७ क्रिया हननलक्षणा। ८ हस्तमुसलद्रव्यद्वयसद्भावात् । उलूखले धान्यादिके खण्ड्यमाने सति दूरतोऽसंयुक्तस्तम्भादिः पततीति भावः। ९ खाश्रयो भूम्यादिः। १० क्रिया आकर्षणम् । ११ भूम्यादौ स्थितोऽयस्कान्त अर्ध्वस्थितमसंयुक्त लोहादिकमाकर्षतीति भावः । १२ परस्य तव। १३ तस्यादृष्टस्थाश्रय आत्मा तेन संयोगः। १४ अदृष्टस्य । १५ द्रव्याणाम् । १६ अदृष्टेन सह । १७ कथम् ? तथा हि।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org