________________
५६३
सू० ४।१०] आकाशद्रव्यविचारः रूपादीनामनुभूततयास्तित्वसम्भावना तथा शब्देपि पौद्गलिकत्वात् । न च पौद्गलिकत्वमसिद्धम्; तथाहि-पौद्गलिकः शब्दोऽस्मदादिप्रत्यक्षत्वेऽचेतनत्वे च सति क्रियावत्त्वाद्वाणादिवत् । न च मनसा व्यभिचारः, 'अस्सदादिप्रत्यक्षत्वे सति' इति विशे. षणत्वात् । नाप्यात्मना; 'अचेतनत्वे सति' इति विशेषणात् । ५ नापि सामान्येन, अस्य क्रियावत्त्वाभावात् । ये च 'अस्मदादिप्रत्यक्षत्वे सति स्पर्शवत्त्वात्' इत्यादयो हेतवः प्रागुपन्यस्तास्ते सर्वे पौद्गलिकत्वप्रसाधका द्रष्टव्याः । ततः शब्दस्याकाशगुणत्वासिद्धेर्नासौ तल्लिङ्गम्। * कुतस्तर्हि तत्सिद्धिरिति चेद् ? 'युगपन्निखिलद्रव्यावगाह-१० कार्यात्' इति ब्रूमः; तथाहि-युगपन्निखिलद्रव्यावगाहः साधारणकारणापेक्षा तथावगाहत्वान्यथाऽनुपपत्तेः। ननु सर्पिषो मधुन्यवगाहो भस्म नि जलस्य जलेऽश्वादेर्यथा तथैवालोकतमसोरशेषार्थावगाहघटनान्नाकाशप्रसिद्धिः; तन्न; अनयोरप्याकाशाभावेऽवगाहानुपपत्तेः।
ननु निखिलार्थानां यथाकाशेवगाहः तथाकाशस्याप्यन्यस्मिनधिकरणेऽवगाहेन भवितव्यमित्यनवस्था, तस्य स्वरूपेवाहे सर्वार्थानां वात्मन्येवावगाहप्रसङ्गात्कथमाकाशस्यातः प्रसिद्धिः? इत्यप्यपेशलम् ; आकाशस्य व्यापित्वेन वावगाहित्वोपपत्तितोऽ. नवस्थाऽसम्भवात्, अन्येषामव्यापित्वेन वावगाहित्वायोगाच्च ।२० न हि किञ्चिदल्पपरिमाणं वस्तु स्वाधिकरणं दृष्टम् ; अश्वादेर्जलाद्यधिकरणोपलब्धेः। कथमेवं दिक्कालात्मनामाकाशेवगाहो व्यापित्वात् ; इत्यप्यसाम्प्रतम् ; हेतोरसिद्धः। तदसिद्धिश्च दिग्द्रव्यस्यासत्त्वात्, कालात्मनोश्चासर्वगतद्रव्यत्वेनाग्रे समर्थनात्प्रसिद्धति । ननु तथाप्यमूर्त्तत्वेन कालात्मनोः पाताभावात्कथं तदाधेयता?२५ इत्यप्ययुक्तम् ; अमूर्तस्यापि ज्ञानसुखादेरात्मन्याधेयत्वप्रसिद्धः।
एतेनामूर्त्तत्वान्नाकाशं कस्यचिदधिकरणमित्यपि प्रत्युक्तम्; अमूर्त्तस्याप्यात्मनो ज्ञानाद्यधिकरणत्वप्रतीतेः। समानसमयवर्तित्वानिखिलार्थानों नाधाराधेयभावः, अन्यथाकाशादुत्तरकालं भावस्तेषां स्यात् ; इत्यप्यसमीचीनम् ; समसमयवर्तिनामप्यात्मा-३० मूर्त्तत्वादीनां तद्भावप्रतीतेः। न खलु परेणाप्यत्र पौर्वापरीभावोऽ
१ परस्य तव। २ पौद्गलिकत्वाभावाद्भावमनसः। ३ जैनैः । ४ वयं जैनाः । ५ सकलद्रव्याणां साधारणमाश्रयकारणमाकाशम् । ६ साधाररणकारणमन्तरेण । आकाशाभावे। ७ बुडनमित्यर्थः। ८ जैनापेक्षया। ९ आत्मादीनाम्। १० वैशेषिकेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org