________________
सू० ४।१०] परमाणुरूपनित्यद्रव्यविचारः ५३९ स्तेषामसंयोगरूपतापरित्यागेन संयोगरूपतया परिणतिरभ्युपगन्तव्या इति सिद्धं तेषां कथञ्चिदनित्यत्वम् । अन्याश्रितत्वेपि पूर्वोक्तदोषप्रसङ्गः। अनाश्रितत्वे तु निर्हेतुकोत्पत्तिप्रसक्तेः सदा सत्त्वप्रसङ्गतः कार्यस्यापि सर्वदा भावानुषङ्गः। कथं चासौ गुणः स्यादनाश्रितत्वादाकाशादिवत् ?
किञ्च, असौ संयोगः सर्वात्मना, एकदेशेन वा तेषां स्यात्? सर्वात्मना चेत्, पिण्डोणुमात्रः स्यात् । एकदेशेन चेत्, सांशत्वप्रसङ्गोऽमीषाम् । तदेवं संयोगस्य विचार्यमाणस्यायोगात्कथ. मसौ तेषामतिशयः स्यात् ? निरतिशयानां च कार्यजनकत्वे तु सकृन्निखिलकार्याणामुत्पादः स्यात् । न चैवम् । ततोमीषां प्राक्त-१० नाजनकस्वभावपरित्यागेन विशिष्टसंयोगपरिणामपरिणतानां जनकस्वभावसम्भवात्सिद्धं कथञ्चिद नित्यत्वम् । प्रयोगः-ये क्रमव. कार्यहेतवस्तेऽनित्या यथा क्रमवदडरादिनिर्वर्तका बीजादयः, तथा च परमाणव इति।।
ततोऽयुक्तमुक्तम्-'नित्याः परमाणवः सदकारणवत्त्वादाका-१५ शवत् । न चेदमसिद्धमावयोः परमाणुसत्वेऽविवादात्। अकारणवत्त्वं चातोऽल्पपरिमाणकारणाभावात्तेषां सिद्धम् । कारणं हि कार्यादल्पपरिमाणोपेतमेव; तथाहि-व्यणुकाद्यवयविद्रव्यं खपरिमाणादल्पपरिमाणोपेतकारणारब्धं कार्यत्वात्पटवेत्,' इति;
अकारणवत्त्वाऽसिद्धिः(द्धेः); परमाणवो हि स्कन्धावयविद्रव्य- २० विनाशकारणकाः तद्भावभावित्वाद् घटविनाशपूर्वककपालवत् । न चेदमसिद्ध साधनम् ; द्यणुकाद्यवयविद्रव्यविनाशे सत्येव परमाणुसद्भावप्रतीतेः। सर्वदा स्वतन्त्रपरमाणूनां तद्विनाशमन्तरेणाप्यत्र सम्भवाद् भागासिद्धो हेतुः; इत्यप्यसुन्दरम् ; तेषामसिद्धेः। तथाहि-विवादापन्नाः परमाणवः स्कन्धभेदपूर्वका एव तत्त्वाद्२५ घ्यणुकादिभेदपूर्वकपरमाणुवत् ।
न पटोत्तरकालभावितन्तूंनां पटभेदपूर्वकत्वेपि पटपूर्वकालभाविनां तेषामतत्पूर्वकत्ववत् परमाणूनामप्यस्कन्धभेदपूर्व
१ पूर्वरूप। २ सतो हेतुरहितस्य सर्वदा व्यवस्थितेः। ३ द्वयणुकादेः । ४ अनाश्रितपक्षे दूषणान्तरमाहाचार्यः। ५ अवयविनिषेधश्च भवेत् । ६ कथञ्चिदेकत्वलक्षण । ७ आदिना क्षितिजलवातातपादयः। ८ परमाणूनां कथञ्चिदनित्यत्वं यतः । ९ आश्रयासिद्धं स्वरूपासिद्धं वा। १० जैनवैशेषिकयोः । ११ द्वितीयविशेषणम् । १२ दृष्टान्ते तन्तवः। १३ कथम् ? तथा हि । १४ अवयविद्रव्यभावं पूर्वमप्राप्तानामित्यर्थः। १५ जगति । १६ स्वतन्त्रत्वेन। १७ भेदो-विनाशः। १८ साधनस्यानैकान्तिकत्वमुद्भावयति परः। १९ निष्पन्नपटासिष्कासितानाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org