SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ५२६ प्रमेयकमलमार्तण्डे [४. विषयपरि० पटस्य, स च ते आत्मा यस्येति वा? प्रथमपक्षे पटस्यैकत्वात्तन्तूनामप्येकत्वप्रसङ्ग, तन्तूनां वाऽनेकत्वात्पटस्याप्यनेकत्वानुषङ्गः । अन्यथा तत्तादात्म्यं न स्यात् । द्वितीयविकल्पेप्ययमेव दोषः। तृतीयपक्षश्वाविचारितरमणीयः; तद्व्यतिरिक्तस्य वस्तुनो - ५सम्भवात् । न हि तन्तुपटव्यतिरिक्तं वस्त्वन्तरमस्ति यस्य तन्तुपटवभावतोच्येत। न च तन्तुपटादीनों कथञ्चिद्भेदाभेदात्मकत्वमभ्युपगन्तव्यम् ; संशयादिदोषोपनिपातानुषङ्गात् । 'केन खलु स्वरूपेण तेषां भेदः केन चाभेदः' इति संशयः। तथा 'यत्राभेदस्तत्र भेदस्य विरोधो १० यत्र च भेदस्तत्राभेदस्य शीतोष्णस्पर्शवत्' इति विरोधः। तथा 'अभेदस्यैकत्वस्वभावस्यान्यदधिकरणं भेदस्य चानेकखभावस्यान्यत्' इति वैयधिकरण्यम् । तथा 'एकान्तेनैकात्मकत्वे यो दोषोऽनेकस्वभावत्वाभावलक्षणोऽनेकात्मकत्वे चैकस्वभावत्वाभा वलक्षणः सोत्राप्यनुषज्यते' इत्युभयदोषः । तथा 'येन खभावे. १५नार्थस्यैकस्वभावता तेनानेकखभावत्वस्यापि प्रसङ्गः, येन चाने कस्वभावता तेनैकस्वभावत्वस्यापि' इति सङ्करप्रसङ्गः । “सर्वेषां युगपत्प्राप्तिः सङ्करः" [ ] इत्यभिधानात् । तथा 'येन स्वभावे. नानेकत्वं तेनैकत्वं प्राप्नोति येन चैकत्वं तेनानेकत्वम्' इति व्यति करः। "परस्परविषयगमनं व्यतिकरः" [ ] इति प्रसिद्धः। तथा २०'येन रूपेण भेदस्तेन कथञ्चिद्भेदो येन चाभेदस्तेनापि कथञ्चि दभेदः' इत्यनवस्था। अतोऽप्रतिपत्तितोऽभौवस्तत्त्वस्यानुषज्येतानेकान्तवादिनाम् । एवं सत्त्वाद्यनेकान्ताभ्युपगमेप्येतेष्टौ दोषा द्रष्टव्याः। तन्न तदात्मार्थः प्रमाणप्रमेयः। किन्तु परस्परतोत्यन्तविभिन्ना द्रव्यगुणकर्मसामान्यविशेष२५समवायाख्याः षडेव पैदार्थाः । तत्र पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव द्रव्याणि । पृथिव्यतेजोवायुरित्येतच्चतुःसंख्यं १ वस्तुनः। २ स तदात्मा, तस्य भावस्तादात्म्यम् । ३ एकरूपपटादभिन्नास्तन्तव एकरूपमापन्ना इति । ४ तन्तुपटौ स्वभावौ यस्य । ५ आदिपदेन गुणगुण्यादीनाम् । ६ कथम् ? तथा हि । ७ भेदाभेदात्मकत्वे वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः। ८ भेदाभेदात्मकत्वे । ९ अयमपि वैयधिकरण्येऽन्तर्भवति । १० स्वभावानाम् । ११ संशयादिदोषतः। १२ अनुपलम्भः । १३ आदिना= असत्त्वादि । १४ सामान्यविशेषात्मा । १५ ग्राह्यः। १६ विभिन्नप्रत्ययविषयत्वाद्भिन्नलक्षणलक्षितत्वाद्भिन्न कारणप्रभवत्वाद्भिन्नार्थक्रियाकारित्वाच्च घटपटवत् । . १७ प्रमाणग्राह्याः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy