________________
सू० ४।६ ]
सम्बन्धसद्भाववादः
५१७
कारणभावनिबन्धनमिष्यते । किन्तु यद्भावे नियता यस्योत्पत्तिस्तत्तस्य कार्यम्, इतरच्च कारणम् । तच्च किञ्चित्संहभोवि, यथा घटस्य मृद्रव्यं दण्डादि वा । किञ्चित्तु क्रमभावि, यथा प्राक्तनः पर्यायः । तत्प्रतिपत्तिश्च प्रत्यक्षानुपलम्भसहायेनात्मना नियंते व्यक्तिविशेषे, तर्कसहायेनें वाऽनियते प्रसिद्धा । ऐकमेव च ५ प्रत्यक्षं प्रत्यक्षानुपलम्भशब्दाभिधेयम् । तद्धि कार्यकारणभावाभिमतार्थविषयं प्रत्यक्षम् तद्विविक्तान्यवस्तुविषयमनुपलम्भशब्दाभिधेयम्। तथाहि-ऐतावद्भिः प्रकारैर्धूमोग्निजन्यो न स्यात् - यदि अग्निसन्निधानात्प्रागपि तत्र देशे स्यात्, अन्यतो वाऽऽगच्छेत्, तदन्यहेतुको वा भवेत् । एतच्च सर्वमनुपलम्भपुरस्सरेण प्रत्य- १० क्षेण प्रत्याख्यातम् ।
२०
ऐतेन प्रागनुपलब्धस्य रासभस्य कुम्भकारसन्निधानानन्तरमुपलभ्यमानस्य तस्य तत्कार्यता स्यादिति प्रतिव्यूढम् ; यदि ह तस्य तंत्र प्रोगसत्त्वमन्यदेशादनागमन्याहेतुकत्वं च निश्चेतुं शक्येतस्यादेव कुम्भकारकीर्यता । तत्तु निश्चेतुमशक्यम् ।
१५
न च भिन्नार्थग्राहि प्रत्यक्षद्वयं द्वितीयाग्रहणे तदपेक्षं कारणत्वं कार्यत्वं वा ग्रहीतुमसमर्थमित्यभिधातव्यम्; क्षयोपशमविशेषवतां धूममात्रोपलम्भेप्यभ्यासवशाद्वह्निजन्यत्वावगमप्रतीतेः, अन्यथा बाप्पादिवैलक्षण्येनास्याऽनवधारणात्ततोग्यनुमाभावे सकलव्यवहारोच्छेदप्रसङ्गः । ततः कारणाभिमतपदार्थग्रहण परिणामापरि २० त्यागवतात्मना कार्यस्वरूपप्रतीतिरभ्युपगन्तव्या नीलाद्याकारव्याप्येकज्ञाने तत्स्वरूपवत् ।
१३ अनिधूम |
१ सहभवतीत्येवं शीलम् । २ यद् घटोत्पत्तिकाले भवति । ३ कुशूलादिः । ४ उत्तरपर्यायस्य कारणम् । ५ महानसे । ६ महान्हदे । ७ परिमिते । ८ धूमायोः । ९ यावान् कश्चित्कार्य लक्षणपदार्थः स कारणे सति भवति, नान्यथेति । १० आत्मना । ११ अनुपलम्भशब्देन किमुच्यते इत्याह । १२ नानुमानादिकम् । १४ बसः । १५ महा-हृदादि | १६ 'अनुपलम्भ' इति । १७ प्रत्यक्षम् । १८ तथा हीत्यादिना प्राक् प्रतिपादितार्थं व्यतिरेकद्वारेण समर्थयते । १९ प्राकू प्रतिपादितैः प्रत्यक्षानुपलम्भादिभिः । २० तान्प्रकारानाह । २१ एवमस्तु इत्युक्ते सत्याह । २२ प्रत्यक्षानुपलम्भादिभिः कार्यकारणभावसिद्धिसमर्थनेन । २३ निराकृतम् । २४ कुम्भकारावस्थितप्रदेशे । २५ कुम्भकारसन्निधानात् । २६ कुम्भकारापेक्षया । २७ तर्हि । २८ रासभस्य । २९ अग्निधूम । ३० अग्निधूमयोर्मध्येऽन्यतरस्य । ३१ एकेन । ३२ अगृहीतकार्यकारणान्यतरापेक्षम् । ३३ परेण । ३४ कार्यकारणभावज्ञानाच्छादककर्मणः । ३५ नृणाम् । ३६ धूमस्य । ३७ पूर्वोक्तास्कारणाद्धूमस्य वन्हिजन्यत्वावगमाभावे । ३८ दूरतः । ३९ धूमोग्ने : कार्यमिति । ४० परेण ।
www.jainelibrary.org
प्र० क० मा० ४४
Jain Educationa International
For Personal and Private Use Only