________________
प्रमेयकमलमार्तण्डे [४. विषयपरिक क्रमेण भाव एकत्र वर्तमानोन्यनिस्पृहः। तेदभावेपि तैद्भावात्सम्बन्धौ नैकवृत्तिमान् ॥८॥ यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते । उपकारी ह्यपेक्ष्यः स्यात्कथं चोपकरोत्यसन् ॥९॥ यद्येकार्थाभिसम्बन्धात्कार्यकारणता तयोः । प्राप्ता द्वित्वादिसम्बन्धात्सव्येतरविषाणयोः ॥ १०॥ द्विष्ठो हि कश्चित्सम्बन्धो नातोन्यत्तस्य लक्षणम् । भावाभावोपधिर्योगः कार्यकारणता यदि ॥ ११॥ योगोपाधी न तावेव कार्यकारणतात्र किम् । मेदाचेन्नन्वऽयं शब्दो नियोक्तारं समाश्रितः॥१२॥ पश्यन्नमदृष्टस्य दर्शने तंददर्शने । अपश्यत्कार्यमन्वेति विना व्याख्यातृभिर्जनः ॥१३॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धरसम्भवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥ १४ ॥ तेद्भावाभावात्तत्कार्यगतिर्याप्यनुवर्ण्यते । सङ्केतविषयाख्या सा सानादेोगतिर्यथा ॥ १५ ॥ भावे भाविनि तद्भावोभाव एव च भाविती । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतैः ॥ १६ ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः। विकल्पा दर्शयन्त्यर्थान् मिथ्यार्था घटितानिव ॥ १७ ॥ भिन्ने का घेटनाऽभिन्ने कार्यकारणतापि का। भावे ह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥१८॥ संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच न सम्बन्धी च तादृशः ॥ १९ ॥ जननेपि हि कार्यस्य केनचित्समवायिना। समवायी तदा नासौ न ततोतिप्रसङ्गतः ॥ २० ॥ तयोरनुपकारेपि समवाये परत्र वा। सम्बन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥ २१ ॥ संयोगजननेपीष्टौ ततः संयोगिनौ न तौं।
२५
१ कार्ये कारणे वा । २ तयोः कार्यकारणयोः । ३ तस्य सम्बन्धस्य । ४ सम्बन्धः । ५ नरम् । ६ कारणम् । ७ कार्यस्य । ८ तस्य कारणस्य । ९ तस्य कारणस्य । १० तस्य कारणस्य । ११ साधनात् । १२ कार्यता। १३ अन्वयव्यतिरेकतः। १४ सम्बन्धः। १५ सम्बन्धस्य । १६ समवायिनोः। १७ तहीति शेषः। १८ कुतः १ यतः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org