________________
५०८
प्रमेयकमलमार्तण्डे [४. विषयपरिक 'इंदमतो भवति' इति प्रतिपद्यते जनः 'अत इदं जातम्' इत्याख्यातृविनापि । तस्माईर्शनादर्शने-विषयिणि विषयोपचा रात्-भावाभावी मुक्त्वा कार्यबुद्धरसम्भवात् कार्यादिश्रुतिरप्यत्र 'भावाभावयोर्मा लोकः प्रतिपदमियती शब्दमालामभिध्यात् ५इति व्यवहारलाघवार्थ निवेशितेति ।
अन्यव्यतिरेकाभ्यां कार्यकारणता नान्या चेत् कथं भावाभावाभ्यां सा प्रसाध्यते ? तदभावाभावात् लिङ्गात्तत्कार्यतागतिर्याप्यनुवर्यते 'अस्येदं कार्य कारणं च' इति; सङ्केतविषयाख्या
सा । यथा 'गौरयं सानादिमत्त्वात्' इत्यनेन गोव्यवहारस्य १० विषयः प्रदर्श्यते । यतश्च 'भावे भाविनि-भवनधर्मिणि तद्भावः
कारणाभिमतस्य भाव एव कारणत्वम् , भावे एव कारणाभिमतस्य भाविता कार्याभिमतस्य कार्यत्वम्' इति प्रसिद्ध प्रत्यक्षानुपलम्भतो हेतुफलते। ततो भावाभावावेव कार्यकारणता
नान्या। तेनैतावन्मात्रं-भावाभावो तावेव तत्त्वं यस्यार्थस्यासावे १५ तावन्मात्रतत्त्वः, सोर्थो येषां विकल्पानां ते एतावन्मात्रतत्त्वार्थाः= एतावन्मात्रैबीजाः कार्यकारणगोचराः, दर्शयन्ति घटितानिक सम्बद्धानिवाऽसम्बद्धानप्यर्थान् । एवं घटनाच मियार्थाः।।
किञ्च, असौ कार्यकारणभूतोर्थो भिन्नः, अभिन्नो वा स्यात् ? यदि भिन्नः तर्हि भिन्ने का घुटना खस्वभावव्यवस्थितः ? अथाऽ. २०भिन्नः तदाऽभिन्ने कार्यकारणतापि का? नैव स्यात्।।
स्यादेतत्, न भिन्नस्याभिन्नस्य वा सम्बन्धः । किं तर्हि ? सम्बन्धाख्येनैकेन सम्बन्धात्; इत्यत्रापि भावे सत्तायामन्यस्य
१ कथम् ? तथा हि। २ स्वयम् । ३ शब्दोल्लेखमन्तरेण उपदेशकैः पुरुषैः । ४ कारणस्य । ५ कार्यस्य । ६ कार्यकारणाभिमतयोः पदार्थयोः कार्यकारणता भवत्विति । ७दर्शनादर्शनलक्षणे ज्ञाने। ८ भावाभावावेव कार्य, नान्यदित्यर्थः । ९ श्रुतिः शब्दः। १० न केवलं कार्यकारणश्रुतिः किंतु । ११ भावे भावः अमावे चाऽभाव इत्येतावतीम् । १२ समर्थिता । १३ इति सम्बन्धवादी ब्रूते । १४ भावाभावाभ्यामनुमीयमाना यदि कार्यकारणता ताभ्यामन्या तदा दूषणम् । १५ सम्बन्धकादिना। १६ तस्य कारणस्य । १७ अस्य कारणस्येदं कार्यमस्य च कार्यस्येदं कारणमिति । १८ अनुमानेन । १९ प्रकारान्तरेण तावेव कार्यकारणतेति निरूपयति । २० कार्यलक्षणे। २१ स्वरूपम् । २२ कार्यकारणस्य । २३ अर्थः विषयः । २४ भ्रान्तज्ञानानाम् । २५ बसः। २६ विकल्पाः । २७ प्रत्यर्थः । २८ विकल्पाः । २९ परस्परम् । ३० सम्बन्धः । ३१ कार्यकारणयोः। ३२ कार्यस्य कारणस्य वा। ३३ प्रत्यर्थोयम् । ३४ भिन्नस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org