________________
४९१
सू० ४।६] क्षणभङ्गवादः मानकालेनानित्यता क्रियते तस्याऽसत्त्वात्, सत्त्वे वा तदनित्य त्वस्याप्यपरेण करणेऽनवस्थाप्रसङ्गः । ततो यथा स्वभावतः पूर्वोत्तरकोटिविच्छिन्नः क्षणो जातः क्षणिको विधीयते कालनिरपेक्षश्च प्रतीयते तथाऽक्षणिकत्वमपि ।
ननु चाक्षणिकत्वम् अर्थानामतीतानागतकालसम्बन्धित्वेना-५ तीतानागतत्वम् । न च कालस्यातीतानागतत्वं सिद्धम्। तद्धि किमपरातीतादिकालसम्बन्धात्, तथाभूतपदार्थक्रियासम्बन्धाद्वा स्यात्, खतो वा ? प्रथमपक्षेऽनवस्था।
द्वितीयपक्षेपि पदार्थक्रियाणां कुतोऽतीतानागतत्वम् ? अपरातीतानागतपदार्थक्रियासम्बन्धाच्चेत् ; अनवस्था। अतीतानागतकाल-१० सम्बन्धाच्चेत्; अन्योन्याश्रयः। स्वतः कालस्यातीतानागतत्वे अर्थानामपि खत एवातीतानागतत्वमस्तु किमतीतानागतकालसम्बन्धित्वकल्पनया? इत्यप्यसमीक्षिताभिधानम् ; स्वरूपत एवाती. तादिसमयस्यातीतादित्वप्रसिद्धः । अनुभूतवर्तमानत्वो हि समयोतीतः, अनुभविष्यद्वर्त्तमानत्वंश्चानागतः, तत्सम्बन्धित्वा-१५ वार्थानामतीतानागतत्वम् । न च कालवदर्थानामपि स्वरूपेणैवातीतानागतत्वं युक्तम् । न ह्येकस्य धर्मोन्यत्राप्यासञ्जयितुं युक्तः, अन्यथा 'निम्बादेस्तिक्ततादिधर्मो गुडादेरपि स्यात्, ज्ञानधर्मों वा खपरप्रकाशकत्वं घटादेरपि स्यात्, तद्धर्मो वा जडता ज्ञानस्यापि स्यात् ।
२० ननु चानुवृत्ताकारप्रत्ययोपलम्भादक्षणिकत्वधर्मार्थानां साध्यते, स च वाध्यमानत्वादसत्यः; तदप्यसम्यक् यतोऽस्य बाधको विशेषप्रतिभास एव, स चौनुपपन्नः। तथाहि-अनुवृत्ताकारे प्रतिपन्ने, अप्रतिपन्ने वासौ तद्बाधको भवेत् ? यदि प्रतिपन्ने; तदा किमनुवृत्तप्रतिभासात्मको विशेषप्रतिभासः, तद्व्य-२५ तिरिक्तो वा ? प्रथमपक्षेऽनुवृत्तप्रतिभासस्य मिथ्यात्वे विशेषप्रतिभासस्यापि तदात्मकत्वात्तत्प्रसक्तेः कथमसौ तद्बाधकः? द्वितीयपक्षेप्यनुवृत्ताकारप्रतिभासमन्तरेण स्थासकोशादिप्रतिभासस्य तद्यतिरिक्तस्यासंवेदनात्तद्बाधकत्वायोगात् । अनुवृत्ता. काराप्रतिपत्तौ च विशेषप्रतिभासस्यैवासम्भवात्कथं तद्बाधकता?३०
१ सौगताभ्युपगमरीत्या । २ कालस्य । ३ कालेन । ४ कालनिरपेक्षम् । ५ अपरस्या परस्मात्सिद्धावन्योन्याश्रयप्रसङ्गात् । ६ कालस्यातीताऽनागतत्वे सिद्धे सति पदार्थक्रियाणामतीतानागतत्वसिद्धिस्तत्सिद्धौ च तत्सिद्धिरिति । ७ द्रव्यरूपेण पुरुषेण । ८ भण्यते । ९ समयः। १० अती तानागतकाल । ११ संयोजयितुम् । १२ बाध. कत्वेनेति शेषः। १३ मिथ्यारूपः। १४ द्वितीयविकल्पोऽयम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org