________________
सू० ४।५] सामान्यस्वरूपविचारः
४७५ तेदभावेपि सेद्धावाद घटे पार्थिवबद्धिवत ॥" .
- [मी० श्लो० वनवाद श्लो०४] : तत्सिद्धसाधनम् ; व्यक्तिव्यतिरिक्तसदृशपरिणामालम्बनत्वात्तस्याः। यञ्च सामान्यस्य सर्वगतत्वसाधनमुक्तम्
"प्रत्येकसमवेतार्थविषया वाथ गोमतिः। प्रत्येकं कृत्स्नरूपत्वात्प्रत्येक व्यक्तिबुद्धिवत् ॥ १॥"
[मी० श्लो० वनवाद श्लो० ४६] प्रयोगः-येयं गोवुद्धिः सा प्रत्येकसमवेतार्थविषया प्रतिपिण्डं कृतरूपपदार्थाकारत्वात् प्रत्येकव्यक्तिविषयबुद्धिवत् । एकत्वम-१० प्यस्य प्रसिद्धमेव; तथाहि-यद्यपि सामान्यं प्रत्येकं सर्वात्मना परिसमाप्तं तथापि तदेकमेवैकाकारबुद्धिग्राह्यत्वात्, यथा नञ्यु. क्तवाक्येषु ब्राह्मणादिनिवर्तनम् । न चेयं मिथ्या; कारणदोषबा. धकप्रत्ययाभावात् । उक्तञ्च
"प्रत्येकसमवेतापि जातिरेकैकबुद्धितः। नयुक्तेष्विव वाक्येषु ब्राह्मणादिनिवर्त्तनम् ॥ १॥ नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नात्र कारणदोषोस्ति बाधकप्रत्ययोपि वा ॥२॥"
[मी० श्लो० वनवाद श्लो० ४७-४९] तदप्युक्तिमात्रम् । प्रतिपिण्डं कृत्स्नरूपपदार्थाकारत्वस्य सदृश २० परिणामाविनामावित्वेन साँध्यविपरीतार्थ साधनस्य विरुद्धत्वात् । नित्यैकरूपप्रत्येकपरिसमाप्तसामान्यसाधने दृष्टान्तस्य सोध्यविकलता। तथाभूतस्य चास्य सर्वात्मना बहुषु परिसमाप्तत्वे सर्वेषां व्यक्तिभेदानां परस्परमेकरूपतापत्तिः एकव्यक्तिपरिनिष्ठितस्वभाव. सामान्यपदार्थसंसृष्टत्वात् एकव्यक्तिस्वरूपवत् । सामान्यस्य २५
१ शावलेयामावेपि खण्डादिगोबुद्धिसद्भावात् तदभावेऽपि शावलेयादेस्तत्सद्भावादित्यर्थः । २ गोबुद्धेः । ३ श्वेतपीतादिविशेषमन्तरेण यथा घटे पृथिवीत्वसामान्येन पार्थिवबुद्धिः। ४ न केवलमेकगोत्वनिबन्धना। ५ एकामेका व्यक्तिं प्रति। ६ गोमतेः। ७ गौगौरिति प्रत्ययः। ८ अर्थो गोत्वलक्षणसामान्यम् । ९ गोत्वादिसामान्य । १० अयं गौरयं गौरिति । ११ नायं ब्राह्मणो नायं ब्राह्मण इत्यादि । १२ एकमेव । १३ इन्द्रियादि । १४ गौगौरिति । १५ हेतोः। १६ सदृशपरिणाम:-साध्यम् । १७ सर्वगतत्व। १८ असर्वगतत्वे । १९ व्यक्तीनां नित्यत्वमेकरूपत्वं च नास्ति यतः । २० एकत्वानुमाने दूषणमाह । २१ विशेषेषु । २२ अभिन्नत्वात् , तादा. म्यापन्नत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org