________________
४५८
प्रमेयक मलमार्त्तण्डे
[ ३. परोक्षपरि०
त्याज्यः आक्षेपसमाधानानामुभयत्र समानत्वात् । ततः शब्दस्फोटस्वरूपस्य विचार्यमाणस्यायोगान्नासौ पदार्थप्रतिपत्तिनिबन्धनं प्रेक्षादक्षैः प्रतिपत्तव्यम् । किन्तु पदं वाक्यं वा तनिबन्धनत्वेन प्रतिपत्तव्यम् ।
५ किं पुनः पदं वाक्यं वा यन्निबन्धनाऽर्थप्रतिपत्तिरित्यभिधीयते ? वर्णानां परस्परापेक्षाणां निरपेक्षः समुदायः पदम् | पदानां तु तदपेक्षाणां निरपेक्षः समुदायो वाक्यमिति । नन्वेवं कथमिदं साधनवाक्यं घटते- 'येत्सत्तत्सर्वं परिणामि यथा घटः, संश्च शब्दः' इति ? ' तस्मात्परिणामी' इत्याकाङ्क्षणोत्साकाङ्गस्य वाक्यत्वनिष्ठेः; १० इत्यप्यचोद्यम् ; कैस्यचित्प्रतिपत्तुस्तद्ना काङ्क्षत्वोपपत्तेः । निराकात्वं हि प्रतिधर्मो वाक्येष्वध्यारोप्यते, न पुनः शब्दधर्मस्तस्याचेतनत्वात् । स चेत्प्रतिपत्ता ताँतीर्थ प्रत्येति, किमित्यपरमाकाङ्गेत् ? पक्षधर्मोपसंहारपर्यन्तसाधनवाक्यादर्थप्रतिपत्तावपि निगमनवचनापेक्षायाम् निगमनान्तपञ्चावयववाक्यादप्यर्थ१५ प्रतिपत्तौ परापेक्षाप्रसङ्गान्न केचिन्निराकाङ्गत्वसिद्धिः । तथा च वाक्याभावान्न वाक्यार्थप्रतिपत्तिः कस्यचित्स्यात् । ततो यस्यै प्रतिपत्तुर्यावत्सु परस्परापेक्षेषु पदेषु समुदितेषु निराकाङ्गत्वं तस्य तावत्सु वाक्यत्वसिद्धिरिति प्रतिपत्तव्यम् ।
१९
एतेन प्रकरणदिगम्यैपदान्तरसापेक्षश्रूयमाणसमुदायस्य नि.
१ ( जैन मतापेक्षया) अवयवक्क्रियाभिनेयार्धव्यतिरेकेणान्यार्थस्य हस्तपादादिस्फोटलक्षणस्याप्रतिभासन लक्षण आक्षेपस्तर्हि वर्णार्थव्यतिरेकेणान्यस्य स्फोट लक्षणार्थस्याप्रति• भासनमिति समाधानम् । ननु वर्णानामनित्यत्वेनार्थप्रतिपादकत्वायोगात्स्फोट एवार्थप्रतिपत्तिहेतुरित्यभ्युपगन्तव्यम् । तन्नः क्रियाया अप्यनित्यत्वेनाभिनेयार्थ प्रतिपादकत्वायोगाद्धस्तादिस्फोटोऽभ्युपगन्तव्यः ( मीमांसकेन ) इति । २ पदादिस्फोटहस्तादिस्फोटयोः । ३ प्रश्ने सति । ४ जैनैः । ५ पदान्तरगतवर्णनिरपेक्षः । ६ परस्पर । ७ वाक्यान्तरपदात् । ८ निरपेक्षस्य पदसमुदायस्य वाक्यत्वप्रकारेण । ९ साध्यसिद्धौ । १० जैनस्य तव । ११ सर्व परिणामि सत्त्वादिति योज्यम् । १२ आकाङ्क्षणे वाक्यस्वं कुतो न स्यादित्युक्ते सत्याह साकाङ्क्षस्येति । १३ जैनस्य । १४ व्युत्पन्नस्य यस्य हि प्रतिपत्तुस्तस्मात्परिणामीत्यत्राकाङ्क्षाक्षयस्तदपेक्षया तद्वाक्यं भवत्युक्तवाक्यलक्षणसद्भावाद, नान्यापेक्षया । १५ चेतन । १६ शब्दोऽचेतन इति वचनात् । १७ साधनवाक्यमात्रेण । १८ साध्यार्थम् । १९ तहींति शेषः । २० वाक्ये । २१ निराकास्यसिद्ध्यभावे च । २२ कन्चित् । २३ वाक्याभावाद्वावयार्थप्रतिपत्तिर्नास्ति यतः । २४ अर्थप्रतिपत्तिमिच्छतः पुरुषस्य । २५ वाक्यसिद्धिप्रकारेण । २६ आदिना सामर्थ्यम् । २७ तिष्ठति भवतीत्यादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org