________________
४५६
प्रमेयकमलमार्त्तण्डे [ ३. परोक्षपरि०
अथ स्फोटविषयसंवेदनोत्पाद स्तत्संस्कारः; सोप्ययुक्तः वर्णानामर्थप्रतिपत्तिजननवत् स्फोटप्रतिपत्तिंजननेपि सामर्थ्यासम्भवात्, न्यायस्य समानत्वात् ।
अथ मैतम् - पूर्ववर्णश्रवणज्ञानाहितै संस्कारस्यात्मनोऽन्त्यवर्ण५ श्रवणज्ञानानन्तरं पदादिस्फोटस्याभिव्यक्तेरयमदोषः, तदप्यसङ्गतम् ; पदार्थप्रतिपत्तेरप्येवं प्रसिद्धेः स्फोटपरिकल्पनार्थनक्यात् । चिदात्मव्यतिरेकेण तत्त्वान्तरस्यास्यार्थप्रकाशन सामर्थ्यासम्भवाच्च स एव हि चिदात्मा विशिष्टशक्तिः स्फोटोऽस्तु । 'स्फुटति प्रकटीभवत्यर्थोस्मिन्' इति स्फोटश्चिदात्मा । पदार्थज्ञानावरणवीर्यान्त१० रायक्षयोपशम विशिष्टः पदस्फोटः । धोक्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशम विशिष्टस्तु वाक्यस्फोटः इति । भावश्रुतज्ञान परिणतस्यात्मनस्तथाभिधानाऽविरोधात् ।
वायवः स्फोटाभिव्यञ्जकाः इत्यप्ययुक्तम् शब्दाभिव्यक्तिवत्स्फोटाभिव्यक्ते स्तेभ्योऽनुपपत्तेः । तेषां च व्यञ्जकत्वे वर्णकल्पना१५ वैफल्यम्, स्फोटाभिव्यक्तावर्थप्रतिपत्तौ चामीषामनुपयोगीत् । स्थिते च स्फोटस्य वर्णवायूत्पादात्पूर्व सद्भावे वर्णानां वायूनां वा व्यञ्जकत्वं परिकल्प्येत । न चास्य सद्भावः कुतश्चित्प्रमाणात्प्रतिपन्नः । यच्चोक्तम्
२१
२०
१४
"नोदेनाऽहितबीजाय मन्ये (न्त्ये ) न ध्वनिना सह । आवृत्ति परिपकायां बुद्ध शब्दोऽवभासते ॥" [ वाक्यप० १८५ ] इति; तदप्येतेनपाकृतम् ; नित्यत्वमन्तरेणामपि चार्थप्रतिपत्तिर्यथा भवति तथा प्रतिपादितमेव ।
१ प्रथमपक्षः । २ पुरुषं प्रति । ३ समस्ता व्यस्ता वा वर्णाः स्फोटप्रतिपत्ति जनयन्तीत्यादिप्रकारेण । ४ मीमांसकस्य तव । ५ जनित । ६ पुरुषस्य । ७ तथा च । ८ ज्ञान । ९ कथम् ? तथा हि । १० हेतोः । ११ आत्मा । १२ भवति । १३ कथमिदानीं द्वैविध्यमस्य स्यादित्याशङ्कायामाह । १४ वीर्य शक्तिः । १५ आत्मा । १६ तथाभिधाने विरोधो भविष्यतीत्यत्राह । १७ वर्णां मा भवन्तु किन्तु । १८ कुतः । १९ स्फोटस्थ । २० उपकाराभावात् । २१ सति । २२ पूर्ववर्णेन वायुना वा । २३ बीज: संस्कारः । २४ अन्त्यवर्णेन वायुना वा । २५ आवृत्तिः सामस्त्येनोचारणम् । ६२ पूर्णायाम् । २७ ज्ञाने । २८ स्फोट: । २९ वायुभ्यः स्फोटाभिव्यक्तिनिराकरणेन । ३० अनित्येभ्यो वर्णेभ्यः कथं स्यादर्थप्रतिपत्तिरित्युक्ते सत्याह । ३१ पूर्व वर्णविचारे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org