________________
४५४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तथा तसंस्कारप्रभवस्मृतिसव्यपेक्षो वान्त्यो वर्णः पदार्थप्रतिपत्तिहेतुः । वाक्यार्थप्रतिपत्तावप्ययमेव न्यायोऽङ्गीकर्तव्यः ।। वर्णाद्वर्णोत्पत्त्यभावप्रतिपादनं च सिद्धसाधनमेव । तदेवं यथोक्तसहकारिकारणसव्यपेक्षादन्त्यवर्णादर्थप्रतिपत्तेरन्वयव्यतिरेकाभ्यां ५निश्चयात् स्फोटपरिकल्पनाऽसम्भव एव; तदभावेप्यर्थप्रतिपत्ते. रुक्तप्रकारेण सम्भवेऽन्यथानुपपत्तेः प्रक्षयात् । न खलु दृष्टादेव कारणात्कार्योत्पत्तावदृष्टकारणान्तरपरिकल्पना युक्तिः स(क्तिस) जता अतिप्रसङ्गात्।
न चैवंवादिनो वर्णेभ्यः स्फोटाभिव्यक्तिर्घटते; तथाहि-न सम१०स्तास्ते स्फोटमभिव्यञ्जयन्ति; उक्तप्रकारेण तेषां सामस्त्यासम्भवात् । नापि प्रत्येकम् ; वर्णान्तरोच्चारणानर्थक्यप्रसङ्गात् , एकेनैव वर्णन सर्वात्मनाऽस्याभिव्यक्तत्वात् । पदार्थान्तरप्रतिपत्तिव्यवच्छेदार्थ तदुच्चारणमिति चेत्, न; तदुच्चारणेपि तत्प्रतिपत्तेरेवानुष
ङ्गात् । यथाहि 'गौः' इति पदस्यार्थी गकारोचारणात्प्रतीयते तथौ१५कारोच्चारणात् 'औशनसः' इति पदार्थोपि, तथा च 'गौः' इति
पदादेव 'गौः, औशनसः' इत्यर्थद्वयं प्रतीयेत । संशयो वा स्यात्'किमेकपदस्फोटाभिव्यक्तये गाद्यनेकवर्णोच्चारणं पदान्तरस्फोटव्यवच्छेदेन, किं वानेकपदस्फोटाभिव्यक्तयेऽनेकाद्यवर्णोच्चारणम्' इति। २० न च पूर्ववर्णैः स्फोटस्य संस्कारेऽन्त्यो वर्णस्तस्याभिव्यञ्जकः इति न वर्णान्तरोच्चारणवैयर्थ्यम् ; अभिव्यक्तिव्यतिरिक्तसंस्कारखरूपानवधारणात् । न खलु तत्र तैर्वेगाख्यः संस्कारो निर्वर्त्यते; तस्य मूर्तेष्वेव भावात् । नापि वासनारूपः, अचेतनत्वात् । स्फोटस्य तच्चैतन्याभ्युपगमे वा स्वशास्त्रविरोधः । नापि स्थित
१ ततः संस्कारस्य सव्यपेक्षोऽन्त्यवर्णोऽर्थप्रतीतिजनक इति । २ परेण । ३ जनानाम् । ४ उक्तप्रकारेण । ५ ताल्वादि। ६ अन्त्यवर्णसद्भावेऽर्थप्रतिपत्तिस्तदभावेऽर्थप्रतिपत्त्यभाव इत्येवम् । ७ स्फोटसद्भावेऽर्थप्रतिपत्तिः स्फोटाभावे च तदभाव इति स्फोटानुमापिकायाः। ८ दृष्टाग्निकारणाद्धमो जलकार्य स्यात् । ९ समस्तेभ्यो व्यस्तभ्यो वा वर्णेभ्योऽर्थप्रतीतिर्नास्तीत्येवं वादिनः। १० गौरित्यत्र गाभिव्यक्तस्फोटप्रतिपन्नार्थादोलक्षणादन्यपदाभिव्यक्तस्फोटप्रतिपन्नार्थोऽर्थान्तरम्, प्रकृतात्पदार्थादन्यः पदार्थः पदार्थान्तरम्। ११ घटादिपदस्फोट । १२ पदार्थप्रतिपत्तिं दर्शयन्त्याचार्याः । १३ एकस्य गकारस्य । १४ उशनसि शब्दे भव औशनसः शुक्र इत्यर्थः । १५ कृत्वा । १६ हेतोः। १७ उत्तरवर्ण। १८ कथम् ? तथा हि । १९ वर्णैः । २० पदार्थेषु । २१ वासनायाश्चेतनत्वात् । २२ मीमांसक ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org