________________
४५२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० । न चान्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे सत्यर्थप्रतिपादकः, पूर्ववर्णानामन्त्यवर्ण प्रत्यनुग्राहकत्वायोगात् । तद्धि अन्त्यवर्ण प्रति जनकत्वं तेषां स्यात्, अर्थज्ञानोत्पत्तौ सहकारित्वं वा? न तावजनकत्वम्; वर्णाद्वर्णोत्पत्तेरभावात् , प्रति५नियतस्थानकरणादिप्रभवत्वात्तस्य, वर्णाभावेप्याद्यवर्णोत्पत्त्युपलम्भाच । नाप्यर्थज्ञानोत्पत्तौ सहकारित्वं तेषामन्त्यवर्णानुग्राहकत्वम्। अविद्यमानानां सहकारित्वस्यैवासम्भवात् । यथा चान्त्यवर्ण प्रति पूर्ववर्णाः सहकारित्वं न प्रतिपद्यन्ते तथा तजनितसंवेदनान्यपि, तत्प्रभवसंस्काराच । १० किञ्च, संवेदनप्रभवसंस्काराः स्वोत्पादकविज्ञान विषयस्मृतिहेतवो नार्थान्तरे ज्ञानमुत्पादयितुं समर्थाः । न खलु घटज्ञानप्रभवः संस्कारः पटे स्मृति विदधदृष्टः । न च तत्संस्कारप्रैभवस्मृतीनां तत्सहायता; तासां युगपदुत्पत्त्यभावात् । अयुगपदुत्प
नानां चावस्थित्यसम्भवात् । न चाखिलसंस्कारप्रभवैका स्मृतिः १५ सम्भवति; अन्योन्यविरुद्धानेकार्थानुभवप्रभवसंस्काराणामप्येक
स्मृतिजनकत्वप्रसङ्गात् । न चान्यवर्णाऽनपेक्ष एव 'गौः' इत्यत्रान्त्यो वर्णोर्थ(थ) प्रतिपादकः, पूर्ववर्णोच्चारणवैयर्थ्यानुषङ्गात्। घटशब्दान्त्यव्यवस्थितस्यापि ककुदादिमैदर्थप्रतिपादकत्वप्रसङ्गाच्च । तन्न वर्णाः समस्ता व्यस्ता वार्थप्रतिपादकाः सम्भवन्ति । अस्ति २०च गवादिशब्देभ्योऽर्थप्रतीतिः, तेदन्यथानुपपत्या वर्णव्यतिरिक्तोऽर्थप्रतीतिहेतुः स्फोटोऽभ्युपगन्तव्यः।
श्रोत्रविज्ञाने चासौ निरवैयवोऽक्रमः प्रतिभासते, श्रवणव्यापारानन्तरमभिन्नाविभासिन्याः संविदोऽनुभवात् । न चासो
वर्णविषया; वर्णानां परस्परव्यावृत्तरूपतयैकप्रतिभासजनकत्व२५ विरोधात् । न चेयं सामान्यविषयाः वर्णत्वव्यतिरेकेणापरसामा
१ विसर्जनीयलक्षणः । २ गकारौकाराभ्याम् । ३ उत्पद्य विनष्टत्वात्पूर्ववर्णानाम् । ४ आयो गकारः। ५ असतां पूर्ववर्णानाम् । ६ उत्पत्त्यनन्तरं विनष्टत्वात् । ७ (पूर्ववर्णानां) धारणारूपाः। ८ अन्त्यवर्णश्रवणकाले प्राक्तनवर्णसंवेदनसंस्काराभावात् । ९ पूर्ववर्णानाम् । १० पूर्णवर्णज्ञान। ११ पूर्ववर्णलक्षण । १२ बहिरर्थे गवादौ । १३ पूर्ववर्णस्मृतीनाम् । १४ प्राक्तनप्राक्तनानां विनष्टत्वात् । १५ सर्वे. पामेका स्मृतिर्भविष्यतीत्युक्ते आह। १६ अन्त्यवर्णसहाया। १७ घटपटलकुटशकटादि । १८ अन्त्यवर्णापेक्षया अन्यवर्णोंगकारौकारौ। १९ विसर्जनीयस्य । २० गोरूप। २१ मा भवन्त्वित्युक्ते आह । २२ स्फोटं विना। २३ निरंशः । २४ अभिन्नः-एकः। २५ अर्थः स्फोटः तेन। २६ एकार्थेनावभासिन्याः । २७ अभिन्नरूप । २८ एकसानसूचक ।
२५.३६
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org