________________
४४४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० नापि जातौ तस्याःक्षणिकत्वे स्खलक्षणस्येवान्वयाभावान्न सङ्केतः फैलवान् । अक्षेणिकत्वे तु क्रमेण ज्ञानोत्पादकत्वाभावः । नित्यैकस्वभावस्य पॅरापेक्षाप्यसम्भाव्या । प्रतिषिद्धा चेयं यथास्थानम् इत्यलमतिप्रसङ्गेने । ५ नीपि तद्योगे सङ्केतः; तस्यापि समवायादिलक्षणस्य निराकृतत्वात् । जातितद्योगयोश्चासम्भवे तद्वतोप्यर्थस्यासम्भवा. त्कथं तत्रापि सैङ्केतः? बुद्धयाँकारे वा; स हि बुद्धिता. दात्म्येन स्थितत्वान्न बुध्यन्तरं प्रतिपाद्यमर्थ वागच्छति।
किञ्च, 'इतः शब्दोदर्थक्रियार्थी पुरुषोऽर्थक्रियाक्षमानान्वि१० ज्ञाय प्रवर्तिष्यते' इति मन्यमानैर्व्यवहर्तृभिरभिधायकों नियुः
ज्यन्ते न व्यसनितया । न चासौ विकल्पबुद्ध्याकारोऽथिनोभिप्रेतं शीतापनोदादिकार्य सम्पादयितुं समर्थः ।
किञ्च, बुद्ध्याकारे शब्दसङ्केताभ्युपैगमेऽपोहादिपक्ष एवाभ्युपगतो भवेत्; तथाहि-अपोहादिनापि बुद्ध्याकारो बाह्यरुप१५ तयाध्यवसितः शब्दार्थोभीष्ट एव, अर्थविवक्षां च कार्यतया शब्दो गमयति यथा धूमोग्निमिति। ।
अत्र प्रतिविधीयते । कृतसमया एव ध्वनयोऽर्थाभिधायकाः। समयश्च सामान्यविशेषात्मकेर्थेऽभिधीयते न जात्यादिमीत्रे ।
१ कुतः। २ जातेः। ३ गोत्वादिसामान्ये । ४ भवेत् । ५ अनुस्यूतत्वे । ६ तस्या जातेः । ७ परं-निमित्तम् । ८ जातिः । ९ जातौ सङ्केतनिराकरणप्रसङ्गेन । १० पक्षान्तरम् । ११ तयोः स्वलक्षणजात्योः सम्बन्धे । १२ आदिना संयोगता. दात्म्यादेश्च । १३ शब्देन । १४ अर्थस्य । १५ नान्वेति। १६ अतः केन सार्क सङ्केतः स्यात् । १७ विवक्षितत्वात्। १८ जैनमताभिप्रायं वक्ति सौगतः। १९ अर्ध:प्रयोजनम् । २० शब्दाः। २१ कार्य विना प्रवृत्तिय॑सनम् । २२ अर्थस्य । २३ पुरुषस्य । २४ अर्थप्रतिबिम्बरूपे । २५ जैनेन । २६ सौगत । २७ जैनस्य । २८ सीगतेन । २९ शानात्मा बुद्ध्याकार एव बाह्यार्थो नापरः कश्चिदित्यभिप्रायों बौद्धविशेषस्य । ३० आन्तरार्थस्य वक्तुमिच्छां ज्ञानस्वभावां शब्दस्य कारणभूताम् । ३१ कार्यरूपः । ३२ ज्ञापयति । ३३ ज्ञानस्वभावा विवक्षा एव बाह्यार्थः शन्दविषयों नापरः कश्चिदित्यपि बौद्धविशेषाभिप्रायः । अन्यापोहरूपो बुद्ध्याकाररूपो विवक्षारूप एवं त्रिविधः शब्दविषयो बौद्धमते इति शेयम् । ३४ कार्यम् । ३५ कारणम् । ३६ परकृतपक्षे। ३७ शब्दाः । ३८ वाचकाः। ३९ तादात्म्यस्वरूपे । ४० पराथें । ४१ क्रियते । ४२ केवलाया जातौ केवले विशेषे वा नाभिधीयते ।
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only