SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ४१६: प्रमेयकमलमार्त्तण्डे वर्णान्तरजनौ तावत्तत्पदत्वं विहन्यते । अपदं हि भवेदेतद्यदि वा स्यात्पदान्तरम् ॥ वर्णोऽनवयवत्वात्तु वृद्धिहासौ न गच्छति । व्योमादिवदतोऽसिद्धा वृद्धिरस्य स्वभावतः ॥” [ मी० श्लो० शब्दनि० श्लो० २१०-२१३] अत्रोच्यते - किं कारणानुविधायित्वमल्पत्वमहत्त्वयोः स्वभावसिद्धत्वादसिद्धम्, आहोखित्कारणात्पत्वमहत्त्वाभ्यां शब्दस्याल्पत्वमहरवे एव न विद्येते स्वभावतस्तद्रहितत्वात् इति ? तत्राद्यपक्षे स्वभावे एव वास्याऽल्पत्वमहत्त्व विद्येते, न तु ते १० तस्य कारणाल्पत्वमहत्त्वाभ्यां कृते इत्यायातम्, तथा च घटादेरपि तथा तत्सत्त्वप्रसङ्गः । निर्हेतुकत्वेन सर्वदा भावानुषङ्गचोभयत्र समानः । द्वितीयस्तु पक्षोऽसङ्गतः; तयोस्तत्र प्रतीयमानत्वेन स्वभावतस्तद्रहितत्वासिद्धेः । न खलु महति ताल्वादो महानऽल्पे चाल्पः शब्दो न प्रतीयते, सर्वत्र तयोरनाश्वास१५प्रसङ्गात् । यदप्युक्तम्- ' न हि वर्णों वर्द्धते' इत्यादिः तत्र यदि तावत् 'अल्पताल्वादिजनितो वर्णादिरल्पो महतस्ताल्वादिव्यापारान्न वर्द्धते' इत्युच्यते, तदा सिद्धसाधनम् । न हि घटोऽल्पान्मृत्पिण्डात्तथाविधो जातोऽन्यतः स एव वर्द्धते अघटत्वप्रसङ्गात्, २० घटान्तरमेव वा स्यात् । अथान्योपि वृद्धिमान्न जायते; तन्न; तथाविधस्य दृष्टत्वात् । दृष्टस्य चाऽपह्नवाऽयोगात् । २५ [ ३. परोक्षपरि० ३५ एतेनैतन्निरस्तम् "अथ ताद्रूप्यविज्ञानं हेतुरित्यभिधीयते । तथापि व्यभिचारित्वं शब्दत्वेपि हि तन्मतिः ॥ १ ॥ व्यक्त्यल्पत्वमहत्त्वे हि तद्यथानुविधीयते । तथैवानुविधातायं ध्वन्यल्पत्व महत्त्वयोः ॥ २ ॥' [मी० लो० शब्दनि० श्लो० २१३-२१४] इति । सदृशपरिणामो हि सामान्यम् । तस्य च वर्णवदऽल्पत्वमहत्वसम्भवात् कथं तेनानेकान्तः ? भवत्कल्पितं तु सामान्यमत्रे ३० निषिद्धत्वात्वरविषाणप्रख्यमिति कथं तेन व्यभिचारोद्भावनम् ? यदप्युच्यते व्यङ्ग्यानां चैतदस्तीति लोकेप्यैकान्तिकं न तत् । दर्पणाल्पमहत्त्वे हि दृश्यतेऽनुपतन्मुखम् ॥ १ ॥ न स्याद्व्यङ्ग्यता तस्मिंस्तत्क्रियाजन्यतापि वा । न चास्योच्चारणादन्या विद्यते जनिका क्रिया ॥ २ ॥" [मी० लो० शब्दनि० श्लो० २१५-२१७] For Personal and Private Use Only Jain Educationa International www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy