________________
प्रमेयकमलमार्त्तण्डे
[ ३. परोक्षपरि०
तेषामग्रेऽनेकत्वप्रसाधनात् । तथाप्यत्र सर्वगतत्वादिधर्मसम्भवे घटादावपि सोsस्तु
'न चास्याऽवयवाः सन्ति येन वर्त्तेत भागशः । घटो वर्त्तत इत्येव तत्र सर्वात्मकश्च सः ॥' ५ इत्यादेरत्राप्यभिधातुं शक्यत्वात् । यथा चक्वचिद्रक्तः क्वचित्पीतः क्वचित्कृष्णश्च गृह्यते । प्रतिदेशं घटस्तेन विभिन्नो मम युक्तिमान् ॥
४१४
तथा
उदात्तः कुत्रचिच्छन्दोऽनुदात्तश्च तथा क्वचित् । १० अकारो मि (कारमि) श्रितोऽन्यत्र विभिन्नः स्याद् घटादिवत् ॥ ननु 'व्यञ्जकध्वनिधर्मा एवोदाचादयो नाऽकारादिधर्माः, ते तु तत्रारोपात्तद्धर्मा इवावभासते जपाकुसुमरक्ततेव स्फटिकादाविति । उक्तञ्च
-
१५
रक्तेतरस्वभावजपाकुसुमस्फटिकवत् क्वचिदुप
"बुद्धितत्रत्वमन्दत्वे महत्त्वात्पत्वकल्पना । साच पट्टी भवत्येव महातेजःप्रकाशिते ॥ १ ॥ मन्दप्रकाशिते मन्दा घटादावपि सर्वदा । एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ॥ २ ॥" [ मी० लो० शब्दनि० लो० २१९-२२० ] तदप्यसारम् यतो यद्युदात्तादिधर्मरहितोऽकारादिस्तत्स२० हितश्च ध्वनिः लब्धः स्यात् तदा स्यादेतत् 'अन्यधर्मस्तदारोपात्तद्धर्मतयेवावभाति' इति । न चासौ स्वप्नेपि तथोपलभ्यते । शब्दधर्मतया चैते प्रतीयमाना यद्यन्यस्येष्यन्तेऽन्यत्र कः समाश्वासहेतुः ? बाधकाभावश्चेत्सोत्रापि समानः । विपरीतदर्शनं हि बाधकम्, २५ यथा द्विचन्द्रदर्शनस्यैकचन्द्रदर्शनम् । न चात्र तदस्ति - उदात्ता• दिधर्मात्मकस्यैवाकारादेः सर्वदा प्रतीतेः । तथापि तत्कल्पने रक्तादिधर्मरहितस्य घटादेर्दर्शनं तथैव कल्प्यताम् । तथाविधस्यानुपलम्भादसत्त्वम् ; शब्देपि समानम् ।
किञ्चेदं बुद्धेस्तीत्वं नाम ? किं महस्वरहितस्यार्थस्य महत्त्वेनो३० पलम्भः, यथाऽवस्थितस्याऽत्यन्तस्पष्टतया वा ? प्रथमे विकल्पे भ्रान्तताऽस्याः स्यात् । 'सा च पट्टी भवत्येव महातेजःप्रकाशिते घटादौ सर्वदा' इति च निदर्शनमयुक्तम्; न हि महातेजःसाम
दल्पोप घटो 'महान' इत्यवभासते किन्त्वत्यन्तस्पष्टतया । द्वितीय विकल्पे तु महत्त्वादिधर्मरहितस्यास्याऽत्यन्तस्पष्टतया ३५ ग्रहणं स्यात् । तथा च न व्यञ्जकध्वनिधर्मानुविधायित्वं स्यात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org