________________
४१२
प्रमेयकमलमार्त्तण्डे [ ३. परोक्षपरि०
प्रतिपत्तौ सामान्यात्सामान्यप्रतिपत्तौ सामान्यप्रतिपत्तिरेव स्यान्न विशेषप्रतिपत्तिः, साधारणरूपतायाः सामान्यस्वभावत्वात् ।
किञ्च, यदि नाम शब्दाजातिः प्रतिपन्ना व्यक्तेः किमायातम्, येनासौ तां गमयति ? तयोः सम्बन्धाच्चेत्; सम्बन्धस्तयोस्तदा ५ प्रतीयते, पूर्व वा ? न तावत्तदाः व्यक्तेरनधिगतेः 'जातिरेव हि केवला तदा प्रतिभासते' इत्यभ्युपगमात्, अन्यथा किं लक्षितलक्षणया ? न च व्यक्त्यनधिगमे तत्सम्बन्धाधिगमः द्विष्ठत्वात्तस्य । अथ पूर्वमसौ प्रतीतः; तथापि तदेवासौ भवतु । न ह्येकदा तत्सम्बन्धेऽन्यदाप्यसौ भवत्यतिप्रसङ्गात् । न च जाते. १० र्विशेषनिष्ठतैव स्वरूपम् ; व्यक्तयन्तराले तत्स्वरूपाऽसत्त्वप्रसङ्गात् । तत्कथं व्यक्तयऽविनाभावोऽस्याः ?
किञ्च, सर्वदा जातिर्व्यक्तिनिष्ठेति प्रत्यक्षेण प्रतीयते, अनुमा नेन वा ? प्रत्यक्षेण चेत्किं युगपत् क्रमेण वा ? तत्राद्यपक्षोऽयुक्तः; सर्वव्यक्तीनां युगपदप्रतिभासनात् । न च तासामप्रति - १५ भासे तथा सम्बन्धावसायोऽतिप्रसङ्गात् । नापि द्वितीय: क्रमेण निरवधेः सकलव्यक्तिपरम्परायाः परिच्छेत्तुमशक्तेः । कादाचित्के तु जातेर्व्यक्तिनिष्ठताधिगमे सर्वत्र सर्वदा न तन्निष्ठताधिगमः स्यात् । तन्न प्रत्यक्षेण जातेस्तन्निष्ठताधिगमः । नाप्यनुमानेन अस्याऽध्यक्ष पूर्व कत्वेनाभ्युपगमात् । तस्य चात्राऽ२० प्रवृत्तावनुमानस्याप्यप्रवृत्तिः । तन्न लक्षितलक्षणया विशेषप्रतिपत्तिः सम्भवति, इति वाच्यवाचकयोः सामान्यविशिष्टविशेषरूपतोपगन्तव्या धूमादिवत् ।
ननु धूमादेः सामान्यसद्भावात्तद्विशिष्टस्योक्तन्यायेन गमकत्व - मस्तु, शब्दे तु तस्याभावात्कथं तद्विशिष्टस्य गमकत्वेंम् ? तद२५ भावश्च वर्णान्तरग्रहणे वर्णान्तरानुसन्धानाभावात् । यत्र हि सामान्यमस्ति तत्रैकग्रहणेऽपरस्यानुसन्धानं दृष्टं यथा शाबलेयग्रहणे बाहुलेयस्य । वर्णान्तरे च गादौ गृह्यमाणे न कादीनामनुसन्ध नम् ; तदसाम्प्रतम् ; गादौ हि वर्णान्तरे गृह्यमाणे यदि 'अयमपि वर्णः' इत्यनुसन्धानाभावः सोऽसिद्धः, तथानुभू ( तथाभू)
१ व्यक्तिम् । २ शब्दाज्जातिप्रतिपत्तिकाले । ३ शब्दोच्चारणसमये व्यक्तिरपि प्रतिभासते चेत्तहिं । ४ लक्षितेन ज्ञातेन सामान्येन लक्षणा = विशेषप्रतिपत्तिस्तया । ५ संबन्धस्य । ६ घटपटयोरेकदा संबन्धे सर्वदा संबन्धप्रसङ्गात् । ७ संबन्धो नास्ति यतः । ८ कदाचिद्वेत्यप्यत्र द्रष्टव्यम् । ९ पिशाचाप्रतिभासे पिशाचेन कूटस्य संबन्ध प्रत्यक्ष प्रसङ्गात् । १० विशेषस्य । ११ अर्थशापकत्वम् । १२ अनुसंधानं = प्रत्य भिशानम् । १३ व्यक्तिषु । १४ गत्वाभावात् कादिषु ।
१५ अनुसंधानाभावः ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org