________________
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० यदि नाशिनि नित्ये वो विनाशिन्येव वा भवेत् ॥१॥ शब्दे वाचकसामर्थ्य ततो दूषणमुच्यताम् । फलषयवहाराङ्गभूतार्थप्रत्ययाङ्गता ॥२॥ निष्फलत्वेन शब्दस्य योग्यत्वादगम्यते । परीक्षमाणस्तेनास्य युक्त्या नित्यविनौशयोः॥३॥ से धर्मोऽभ्युपगन्तव्यो यः प्रधानं न बाधते।
ह्यङ्गोङ्गयऽनुरोधेन प्रधानफैलबांधनम् ॥ ४॥ युज्यते नाशिपक्षे च तदेकान्तात्प्रसज्यते । न ह्यदृष्टार्थसम्बन्धः शब्दो भवति वाचकः ॥५॥ तथा च स्यादपूर्वोपि सर्वः सर्व प्रकाशयेत् । सम्बन्धदर्शनं चौस्य नाऽनित्यस्योपपद्यते ॥ ६॥ सम्बन्धज्ञानसिद्धिश्चेर्दुवं कालान्तरस्थितिः। अन्यस्मिन् ज्ञातसम्बन्धे न चान्यो वाचको भवेत् ॥ ७॥ गोशब्दे ज्ञातसम्बन्धे नाऽश्वशब्दो हि वाचकः।"
[मी० श्लो० शब्दनि० श्लो० २३७-२४४] इति । अथ विभिन्नदेशादितयोपलभ्यमानत्वाद्कारादीनां नानात्वा. ऽनित्यत्वे सांध्येते; तन; अनेकप्रतिपतृभिर्विभिन्नदेशादितयोपलभ्यमानेनादित्येनानेकान्तात् । विभिन्न देशादितयोपलम्भश्चैषां व्यञ्जकध्वन्यधीनो, न खरूपमेदनिबन्धनः। तदुक्तम्
"नित्यत्वं व्यापकत्वं च सर्ववर्णेषु संस्थितम् ।
प्रत्यभिज्ञानतो मानाद्वाधसैगमवर्जितात् ॥१॥"[ ] १ अर्थापत्तिरेवास्तां तथाप्यन्यथासिद्धत्वमन्यथव सिद्धत्वं वा स्यादित्युक्ते आह । २ उभयात्मके। ३ केवलेऽनित्ये। ४ नित्यानित्यात्मके केवलेऽनिये शब्दे वाचकसामर्थ्यस्य वर्तमानात् । ५ न चैवमिति भावः। ६ फलवाश्चासौ प्रवृत्तिनिवृत्ति लक्षणव्यवहारश्च तस्याङ्गभूतं कारणभूतं च तदर्थप्रत्ययश्च, तस्याङ्गता कारणता शब्दस्य । ७ अन्यथा। ८ हेतुना। ९ अर्थप्रतीतिलक्षणफलराहिये। १० अर्थ. प्रतिपत्तिः। ११ उक्तप्रकारेण सफलत्वमायातं शब्दस्येति फलं भवतु को दोष इत्युक्त आह परीक्षेत्यादि । १२ फलवत्वं सिद्धं शब्दस्य येन कारणेन। १३ द्वयो. धर्मयोमध्ये। १४ नित्यफललक्षणः। १५ नित्यधर्मस्य फलम् । १६ नित्यत्वं बाधकं भविष्यति प्रधानफलस्येत्युक्ते आह न हीत्यादि । १७ कारण। १८ मावेन । १९ लक्षणतः। २० अर्थप्रतीतिलक्षणमुख्यफलस्य । २१ नित्यपक्षवनाशिपक्षेति प्रधानफलबाधनं नास्तीत्युक्ते आह । २२ नियमेन । २३ अशातार्थ । २४ शम्दस। २५ गृहीतसम्बन्ध एव प्रशक्तोस्त्वित्याह । २६ अवश्यम् । २७ शब्दस्य कालातरस्थितिपक्षे । २८ आदिना कालः । २९ गादयो धर्मिणो नना अनित्याश्च भवन्ति विभिन्न देशकालवादित्यनुमानेन । १० प्रमाणात् । ११ संगमः-संवन्धः ।
२०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org