________________
४०४
प्रमेयकमलमार्तण्डे
[३. परोक्षपरि०
नापि वर्णानां कृतकत्वतःशब्दमात्रस्यानित्यत्वसिद्धौ तेषामप्यनित्यत्वसिद्धौ तेषामप्यनित्यत्वोपपत्तेः। तथाहि-अनित्यः शब्दः कृतकत्वाद् घटवत् । न च कृतकत्वमसिद्धम् ; तथाहि-कृतका
शब्दः कारणान्वयव्यतिरेकानुविधायित्वात्तद्वदेव । न चेदमप्य५सिद्धम् ; ताल्वादिकारणव्यापारे सत्येव शब्दस्यात्मलाभप्रतीतेस्तदभावे वाऽप्रतीतेः, चक्रादिव्यापारसद्भावासद्भावयोर्घटस्यात्मलाभालाभप्रतीतिवत् ।
ननु शब्दस्याऽनित्यत्वोपगमे ततोर्थप्रतीतिर्न स्यात्, अस्ति चासौ। ततो नित्यः शब्दः स्वार्थप्रतिपादकत्वान्यथानुपपत्तेः' इत्य१० भ्युपगन्तव्यम् । स्वार्थनावगतसम्बन्धो हि शब्दः स्वार्थ प्रतिपाद
यति, अन्यथाऽगृहीतसङ्केतस्यापि प्रतिपत्तुस्ततोऽर्थप्रतीतिप्रसङ्गः। । सम्बन्धावगमश्च प्रमाणयसम्पाद्यः; तथाहि-यदैको वृद्धोऽ. न्यस्मै प्रतिपन्नसङ्केताय प्रतिपादयति-'देवदत्त गामभ्याज शुक्ला
दण्डेन' इति, तदा पार्श्वस्थान्योऽव्युत्पन्नसङ्केतः शब्दार्थों प्रत्य१५क्षतः प्रतिपद्यते, श्रोतुश्च तद्विषयक्षेपणोदिचेष्टोपलम्भानुमौनतो गवादिविषयां प्रतिपत्तिं प्रतिपद्यते, तत्प्रतिपत्त्यन्यथानुपपत्त्या च तच्छब्दस्यैव तत्र वाचिकां शक्ति परिकल्पयति पुनः पुनस्त: च्छब्दोच्चारणादेव तदर्थस्य प्रतिपत्तेः। सोयं प्रमाणत्रयसम्पाद्यः
सम्बन्धावगमो न सकृद्वाक्यप्रयोगात्सम्भवति । न चाऽस्थिरस्य -२० पुनःपुनरुच्चारणं घटते, तदभावे नान्वयव्यतिरेकाभ्यां वाचक
शक्त्यवगमः, तदसत्त्वान्न प्रेक्षावद्भिः परावबोधाय वाक्यमुच्चा येत । न चैवम् । ततः परार्थवाक्योच्चारणान्यथानुपपत्त्या निश्ची: यते नित्योसौ।
तदुक्तम्-"देर्शनस्य परार्थत्वान्नित्यः शब्दः"[जैमिनिसू० १११८] २५ अथ मतम्-पुनः पुनरुच्चार्यमाणः शब्दः सादृश्यादेकत्वेन - निश्चीयमानोऽर्थप्रतिपत्तिं विदधाति न पुनर्नित्यत्वात् । तदसमी.. १ नित्यत्वमन्तरेण । २ जैनेन त्वया। ३ गृहीत । ४ प्रत्यक्षानुमानार्थापत्तीति । ५ पूर्व गुरोः सकाशात् । ६ ना। ७ बालकाय । ८ तृतीयः। ९ गुरुसन्निधौ गवानयनसमये । १० गोशब्दं श्रावणप्रत्यक्षेण, गोलक्षणमर्थ नायनप्रत्यक्षेण । ११यं देवदत्तं प्रति वाक्यं प्रोक्तं तस्य । १२ आदिना ताडनप्रेरणादि । १३ तृतीयः। १४ शिष्यो गोलक्षणार्थे शानवान् तद्विषयचेष्टावत्त्वान्मद्वत् । १५ गोशब्दो गोलक्षगार्थवाचकशक्तियुक्तो गोप्रतीत्यन्यथानुपपत्तेरिति। १६ गो इति। १७ अनित्यस शब्दस्य । १८ गोशब्दे उच्चारिते गोलक्षणार्थप्रतिपत्तिर्भवति, अनुच्चारित गोलक्षणार्थप्रतिप्रत्तिर्न भवतीति । १९ वाचकशक्त्यवगमस्य । २० शब्दः। २१ उच्चारणस। २२ घटोयं पुनर्देशकालान्तरे घटोयमिति । . .. ... ...
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org