________________
सू० ३१९९] वेदापौरुषेयत्ववादः कत्वात्तन्नामभिरङ्किताः, तदृष्टत्वात् , तत्प्रकाशितत्वाद्वा ? प्रथमपक्षे कथमासामपौरुषेयत्वमस्मर्यमाणकर्तृकत्वं वा? उत्तरपक्षद्वयेपि यदि तावदुरैसन्ना शाखा कण्वादिना दृष्टा प्रकाशिता वा तदा कथं सम्प्रदायाऽविच्छेदोऽतीन्द्रियार्थदर्शिनः प्रतिक्षेपश्च स्यात् ? अथानवच्छिन्नैव सा सम्प्रदायेन दृष्टा प्रकाशिता वा; ५ तर्हि यावद्भिरुपाध्यायैः सा दृष्टा प्रकाशिता वा तावतां नामभिस्तस्याः किन्नाङ्कितत्वं स्याद्विशेषाभावात् ?
एतेन 'छिन्नमूलं वेदे कर्तृस्मरणं तस्य ह्यनुभवो मूलम् । न चासौ तत्र तद्विषयत्वेन विद्यते' इत्यपि प्रत्युक्तम् । यतोऽध्यक्षेण तदनुभवाभावात् तत्र तच्छिन्नमूलम् , प्रमाणान्तरेण वा ? अध्य-१० क्षेण चेत् ; किं भवत्सम्बन्धिना, सर्वसम्बन्धिना वा? यदि भवसम्बन्धिना; तागमान्तरेपि कर्तृग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेस्तत्कर्तृस्मरणस्य छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावाद् व्यभिचारी हेतुः। अथागमान्तरे कर्तृग्राहकत्वेनास्मत्प्रत्यक्षस्याप्रवृत्तावपि परैः कर्तृसद्भावाभ्युपगमात् ततो व्यावृत्तमस्मर्यमाण-१५ कर्तृकत्वमपौरुषेयत्वेनैव व्याप्यते इति अव्यभिचारः; न; परकीयाभ्युपगमस्याप्रमाणत्वात् , अन्यथा वेदेपि परैः कर्तृसद्भावाभ्युपगमतोऽस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः स्यात् ।।
अथ वेदे सविगानकर्तृविशेषे विप्रतिपत्तेः कर्तृस्मरणमऽतोऽप्रमाणम्-तत्र हि केचिद्धिरण्यगर्भम् , अपरे अष्टकादीन् कर्तृन् २० स्मरन्तीति । नन्वेवं कर्तृविशेषे विप्रतिपत्तेस्तद्विशेषस्मरणमेवाप्रमाणं स्यात् न कर्तृमात्रस्मरणम्, अन्यथा कादम्बर्यादीनामपि कर्तृविशेषे विप्रतिपत्तेः कर्तृमात्रस्मरणत्वेनास्मर्यमाणकर्तृकत्वस्य भावात्पुनरप्यनेकान्तः। अथ वेदे कर्तृविशेषे विप्रतिपत्तिवत्कर्तृमात्रेपि विप्रतिपत्तेस्तस्मरणमप्यप्रमाणम् , कादम्बर्यादीनां तु २५ । कर्तृविशेष एव विप्रतिपत्तेस्तत्प्रमाणमित्यनैकान्तिकत्वाभावोsस्मर्यमाणकर्तृकत्वस्य विपक्षे प्रवृत्यभावात् । ननु वेदे सौगतादयः कर्तारं स्मरन्ति न मीमांसका इत्येवं कर्तुमात्रे विप्रतिपत्तेर्यदि तदप्रमाणम्; तर्हि तद्वदस्मरणमप्यऽप्रमाणं किन्न स्याद्विप्रतिपत्तेरविशेषात् ? तथा चासिद्धो हेतुः।
१ कण्वादि । २ कण्वादि । ३ नष्टा । ४ कर्तृस्मरणमूलस्य वेदपदवाक्यानीत्याचनुमानेऽस्य पुराणस्मृतिवेदवाक्यस्य च प्रवर्तनपरेण ग्रन्थेन । ५ कारणम् । ६ कथम् । ७ शानादिपिटकत्रये। ८ सौगतैः। ९ व्याधुटितम् । १० सविप्रतिपत्तिक । ११ यदि कर्तृविशेषे विप्रतिपत्तिः कर्तृमात्रस्मरणस्याऽप्रामाण्यम् । १२ बाणः शङ्करो वेति । १३ कादम्बर्यादौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org