SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ सू० ३।१६-२१] अविनाभावादीनां लक्षणानि सहक्रमभावनियमोऽविनाभावः ॥ १६ ॥ सहभावनियमः क्रमभावनियमश्चाविनाभावः प्रतिपत्तव्यः। कयोः पुनः सहभावः कयोश्च क्रमभावो यनियमोऽविनाभावः स्यादित्याहसहचारिणोः व्याप्यव्यापकयोश्च सहभावः॥१७॥५ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः॥१८॥ सहचारिणो रूपरसादिलक्षणयोर्व्याप्यव्यापकयोश्च शिंशपा. त्ववृक्षत्वादिस्वभावयोः सहभावः प्रतिपत्तव्यः। पूर्वोत्तरचारिणोः कृतिकाशकटोदयादिस्वरूपयोः कार्यकारणयोश्चाग्निधूमादिस्वरूपयोः क्रमभाव इति । कुतोसौ प्रोक्तप्रकारोऽविनाभावो निर्णीयते इत्याह तत्तिनिर्णयः॥ १९ ॥ न पुनः प्रत्यक्षादेरित्युक्तं तर्कप्रामाण्यप्रसाधनप्रस्तावे। ननु साधनात्साध्यविज्ञानमनुमानमित्युक्तम् । तत्र किं साध्यमित्याह इष्टमबाधितमसिद्धं साध्यम् ॥ २०॥ संशयादिव्यवच्छेदेन हि प्रतिपन्नमर्थवरूपं सिद्धमुच्यते, तद्विपरीतमसिद्धम् । तच्चसन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा स्यादित्यसिद्धपदम् ॥ २१॥ २० किमयं स्थाणुः पुरुषो वेति चलितप्रतिपत्तिविषयभूतो ह्यर्थः सन्दिग्धोभिधीयते । शुक्तिकाशकले रजताध्यवसायलक्षणवि. पर्यासगोचरस्तु विपर्यस्तः । गृहीतोऽगृहीतोपि वार्थो यथावदनिश्चितखरूपोऽव्युत्पन्नः । तथाभूतस्यैवार्थस्य साधने साधनसामर्थ्यात्, न पुनस्तद्विपरीतस्य तत्र तद्वैफल्यात् । __इष्टाऽबाधितविशेषणद्वयस्यानिष्टेत्यादिना फलं दर्शयति १ ताद्विः (षष्ठीद्विवचनमित्यर्थः ) । ययोः । २ तस्य अविनाभावस्य । ३ साध्यत्वेनाभिप्रतम् । ४ अर्थानाम् । ५ पूर्वम् । ६ सिद्धौ। ७ सूत्रेण । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy