________________
सू० ३।१५ ] पूर्ववदाद्यनुमानत्रैविध्यनिरासः
३६३
यथा विवादास्पदं तनुकरणभुवनादि बुद्धिमत्कारणं कार्यत्वादिभ्यो घटादिवत् । यत्पुनर्बुद्धिमत्कारणं न भवति न तत्कार्यत्वादिधर्माधारो यथात्मादिः' इति ।
तदप्येतेन प्रत्याख्यातम् ; सर्वत्रान्यथानुपपन्नत्वस्यैव हेतुलक्षणतोपपत्तेः, तस्मिन्सत्येव हेतोर्गमकत्वप्रतीतेः ।
;
केवलान्वयिनो हि यद्यन्यथानुपपन्नत्वं प्रमाणनिश्चितमस्ति, किमन्वयाभिधानेन ? अथान्वयाभावे तदभावस्तदनिश्चयो वेति तदभिधानम्; स्यादेतत् यद्यविनाभावस्तेन व्याप्तः स्यात्, अंव्यापक निवृत्तेरव्याप्य निवृत्तावतिप्रसङ्गात् । व्याप्तश्चेत् तर्हि प्राणादौ तन्निवृत्तावविनाभावनिवृत्तेरगमकत्वं स्यात् । न खलु येद्यस्यै १० व्यापकं तत्तदभावे भवति वृक्षत्वाभावे शिशपात्ववत् । गमकत्वे वास्य नान्वयेनासौ व्याप्तः स्यात् । यदभावे हि यद्भवति न तत्तेन व्याप्तम् यथा रासभाभावे भवन्धूमादिर्न तेन व्याप्तः भवति चान्वयाभावेपि तदविनाभाव इति ।
;
'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनमनेकत्वात्' इत्ययं च हेतुः १५ कुतः केवलान्वयी ? व्यतिरेकाभावाच्चद् अयमपि कुतः ? तद्विपयस्य विपक्षस्याभावाच्चेद् अथ कोयं विपक्षाभावः - पक्षसपक्षावेव, निवृत्तिमात्रं वा ? प्रथमपक्षे परमतप्रसङ्गः अभावस्य भावान्तरस्वभावतास्वीकारात् । द्वितीयपक्षे तु स तथाविधः प्रतिपन्नः, न वा ? न प्रतिपन्नश्चेत् तर्हि विपक्षाभावसन्देहाद्व्यतिरेकाभावोपि २० सन्दिग्ध इति केवलान्वयोपि तागेव । अथ प्रतिपन्नः; स यदि साध्यनिवृत्त्या साधननिवृत्त्याधारः प्रतिपन्नः; तर्हि स एव विपक्षः, कथं विपक्षाभावो यतो व्यतिरेकाभावः ? साध्यसाधनाभावाधारतया निश्चितस्य विपक्षत्वात् । तच्च भाववदभावस्यापि न विरुध्यते, कथमन्यथा 'सदसद्वर्गः कस्यचिदेकज्ञानालम्बनम्' २५इत्यत्रासन् पक्षः स्यात् ? असन् पक्षो भवति न विपक्ष इति किङ्कतो
२२
१ व्यतिरेकिदृष्टान्तः । २ गगनं च । ३ अन्यथानुपपन्नत्वमेव हेतुलक्षणमिति समर्थनपरेण ग्रन्थेन । ४ अनुमाने । ५ तर्कलक्षण । ६ दृष्टान्ते हेतोः सत्त्वमन्वयः । ७ अन्वयस्य । ८ अविनाभावस्य । ९ सत्याम् । १० घटनिवृत्तौ पटनिवृत्तिप्रसङ्गात् । ११ अविनाभावोऽन्वयेन । १२ अविनाभावस्य । १३ अन्वयः । १४ अविनाभावः । १५ प्रसज्यः । १६ जैनमत । १७ जैनेन । १८ विपक्षाभावो विपक्षो भवति साध्यनिवृत्त्या साधननिवृत्याधारः स्यात्सम्प्रतिपन्नविपक्षवत् । १९ भाव एव महान्दलक्षण: आकाशलक्षणो वा विपक्षः स्यात् न त्वभाव इत्युक्ते आह । २० अभावस्य विपक्षत्वे विरोधश्चेत् । २१ असन् । २२ केन |
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org