________________
सू० ३।१०।११] प्रत्यभिज्ञानप्रामाण्यविचारः
३४७ पत्तिरुपमानमिति नैयायिकमतमपि प्रत्युक्तम् । यथैव ह्येकदा घटमुपलब्धवतः पुनस्तस्यैव दर्शने 'स एवायं घटः' इति प्रतिपत्तिः प्रत्यभिज्ञा, तथा 'गोसदृशो गवयः' इति सङ्केतकाले गोसदृशगवयाभिधानयोर्वाच्यवाचकसम्बन्ध प्रतिपद्य पुनर्गवयदर्शनात्तप्रतिपत्तिः प्रत्यभिज्ञा किन्नेष्यते? न खलु पूर्वमप्रतिपन्नेऽपूर्व-५ दर्शनात्स्मृतिर्युक्ता, यतस्तथा प्रतिपत्तिः स्यात् ।।
गोविलक्षणमहिष्यादिदर्शनाच 'अयं गवयो न भवति' इति तत्संज्ञासंशिसम्बन्धप्रतिषेधप्रतिपत्तिश्च यद्युपमानम्-"प्रसिद्धसाधासाध्यसाधूनमुपमानम्" [न्यायसू० १॥१॥६] इति व्याहन्येत । अथ प्रसिद्धार्थवैधादपीयेते; तर्हि 'प्रसिद्धार्थवैधाच्च १० साध्यसाधनमुपमानम्' इत्युपख्यानं सूत्रे कर्त्तव्यम् ।
किञ्च, प्रसिद्धार्थकत्वात्साध्यसाधनमुपैमानमित्यप्यभ्युपगम्यताम् । तथा च प्रत्यभिज्ञानस्य प्रत्यक्षेन्तर्भावोऽयुक्तः।
तथा स्वसमीपवर्तिप्रासादादिदर्शनोपजनितसंस्कारस्य तत्प्रतियोगिभूधराद्युपलम्भात् 'इदमस्माद्दरम्' इति प्रतिपत्तिः,१५ आमलकदर्शनाहितसंस्कारस्य बिल्वादिदर्शनात् 'अतस्तत्सूक्ष्मम्' इति, हैखदर्शनाविर्भूतसंस्कारस्य तद्विपरीतार्थोपलम्भात् 'अतोयं प्रांशुः' इति च प्रतिपत्तिः किं नाम मौनं स्यात् ?
तथा वृक्षाद्यनभिज्ञो यदा कश्चित्कञ्चित्पृच्छति कीदृशो वृक्षादिरिति ? स तं प्रत्याह-'शाखादिमान्वृक्ष एकशृङ्गो गण्ड-२० कोऽष्टपादः शरभः चारुसटान्वितः सिंहः' इत्यादि ।तद्वाक्याहितसंस्कारःप्रष्टा यदा शाखादिमतोर्थान् प्रतिपद्य 'अयं स वृक्षशब्दवाच्यः' इत्यादिरूपतया तत्संज्ञासंशिसम्बन्ध प्रतिपद्यते तदा किं नाम तत्प्रमाणं स्यात् ? उपमानम् ; इत्यसम्भाव्यम् ; सर्वत्रोक्तप्रकारप्रतिपत्तौ प्रसिद्धार्थसाधासम्भवात् । ततः प्रति-२५
१ शानवतः। २ आटविकाद् ज्ञात्वा । ३ वाच्यवाचकसम्बन्धे। ४ गवय । ५ गोः। ६ ज्ञातार्थसम्बन्धसाधात् । ७ गवयस्य । ८ साध्यस्य अयं गवयशब्द. वाच्य इति संज्ञासंशिसम्बन्धस्य । ९ गवा। १० महिषस्य । ११ साध्यसाधनमुफ्. मानम् । १२ गोगवयलक्षणेन । १३ महिषस्य । १४ साध्यस्य अयं गवयशब्दवाच्य इति संशासंशिसम्बन्धस्य । १५ गणना। १६ तन्नास्त्येव भवदीये सूत्रे। १७ पूर्वपर्यायेण । १८ उत्तरपर्यायस्य । १९ स एवायमित्यादि । २० दूषणान्तरसमुच्चये । २१ कुब्ज। २२ प्रमाणम् । २३ पृच्छयमानपुरुषस्य । २४ ते च ते संशासंज्ञिनश्च, वृक्ष इति संशा, शाखादिमान् पदार्थः संज्ञी। २५ अयं वृक्षशब्दवाच्य इत्यादिकम् । २६ इदमसाइरमिलादौ च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org