SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ .. प्रमेयकमलमार्तण्डे [३. परोक्षपरि० यदप्युच्यते-मरतः पूर्वदृष्टार्थानुसन्धानादुत्पद्यमाना मतिश्चक्षुःसम्बद्धत्वे प्रत्यक्षमिति; तदप्यसारम् न हीन्द्रियमतिः स्मृतिविषयपूर्वरूपग्राहिणी, तत्कथं सा तत्सन्धानमात्मसात्कुर्यात् ? पूर्वदृष्टसन्धानं हि तत्प्रतिभासनम्, तत्सम्भवे चेन्द्रियमतेः ५परोक्षार्थग्राहित्वात् परिस्फुटप्रतिभासता न स्यात् । यदि च स्मृतिविषयखभावतया दृश्यमानोर्थः प्रत्यक्षप्रत्ययैरवगम्येत तर्हि स्मृतिविषयः पूर्वस्वभावो वर्तमानतया प्रतिभातीति विपरीतख्यातिः सर्व प्रत्यक्षं स्यात् । अव्यवधानेन प्रतिभासनलक्षण वैशद्याभावाच्च न प्रत्यभिज्ञानं प्रत्यक्षम् इत्यलमतिप्रसङ्गेन । १० तंञ्च तदवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिप्रकार प्रतिपत्तव्यम् । तदेवोक्तप्रकारं प्रत्यभिज्ञानमुदाहरणद्वारेणाखिलजनावबोधार्थ स्पष्टयति यथा स एवायं देवदत्तः ॥६॥ गोसदृशो गवयः ॥ ७॥ .. गोविलक्षणो महिषः ॥८॥ इदमस्मादरम् ॥ ९॥ वृक्षोयमित्यादि ॥१०॥ ननु स एवायमित्यादि प्रत्यभिज्ञानं नैकं विज्ञानम्-'सः' इत्युल्लेखस्य स्मरणत्वात् 'अयम्' इत्युल्लेखस्य चाध्यक्षत्वात् । न चाभ्यां २० व्यतिरिक्तं ज्ञानमस्ति यत्प्रत्यभिज्ञानशब्दाभिधेयं स्यात् । नाप्यनयोरैक्यं प्रत्यक्षानुमानयोरपि तत्प्रसङ्गात् । स्पष्टेतररूपतया तयोभैंदेऽत्रापि सोऽस्तु; तदसाम्प्रतम् ; स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवत्यैकद्रव्यविषयस्य सङ्कलनज्ञानस्यैकस्य प्रत्यभिज्ञानत्वेन सुप्रतीतत्वात् । न खलु स्मरणमेवातीतवर्तमानविवर्त्तवर्तिद्रव्यं २५सङ्कलयितुमलं तस्यातीतविवर्त्तमात्रगोचरत्वात् । नापि दर्शनम्। १ पुरुषस्य । २ प्रतिभासात्। ३ तर्कस्य प्रत्यक्षतापरिहारार्थमाह । ४ इन्द्रियमतिः स्मृतिविषयरूपग्राहिणी न भवति इन्द्रियमतित्वादित्यस्मिन्ननुमाने सन्दिग्धानका. न्तिकत्वे परिहारे इदं वाक्यम्। ५ दृश्यमानार्थाद्विपरीतस्मृतिविषयो विपरीतख्यातिः। ६ इत्यापद्यते । ७ पूर्वस्मरणमुत्तरदर्शनं च व्यवधायकं प्रत्यभिज्ञानस्य । ८ प्रत्यभिशानभेदलक्षणप्रत्यक्षप्रमाणस्य निराकरणविस्तरेण । ९ प्रत्यभिज्ञानभेदं दर्शयति । १० प्रागुक्तलक्षणलक्षितमेव । ११ तेन सदृश इत्यादि च। १२ अत्राह सौगतः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy