________________
सू० २।१२] मोक्षस्वरूपविचारः
३२३ म्भवात् । प्रतीत्यनतिक्रमेणात्र स्वरूपसामर्थ्यप्रतिबन्धाभ्युपगमोऽन्यत्रापि समानः । मिद्धादिसामग्रीविशेषवशाद्धि बाह्याध्या. त्मिकार्थविचारविधुरं गच्छत्तृणस्पर्शज्ञानसमानं सुषुप्तावस्थायां ज्ञानमास्ते। . न हि स्वपरप्रकाशस्वभावत्वमात्रेणैवास्य तन्निरूपणसाम-५
र्थ्यम्; सर्वत्रानभिभूतस्यैवार्थस्य स्खकार्यकारित्वप्रतीतेः, अन्यथा दहनादिस्वभावस्याग्नेः सदा दाहकत्वप्रकाशकत्वप्रसङ्गः, गच्छतृणस्पर्शसंवेदनस्य वा तदर्थनिरूपकत्वानुषङ्गः । अथात्र मनोव्यासङ्गोऽस्मरणकारणम् ; अन्यत्र मिद्धादिकमित्यविशेषः। अस्ति चात्र स्वापलक्षणार्थनिरूपणम्-'एतावत्कालं निरन्तरसुप्तोहमेता-१० वत्कालं सान्तरम्' इत्यनुस्मरणप्रतीतेः। न च वापलक्षणार्थाननुभवेपि सुप्तोत्थानानन्तरं 'गाढोहं तदा सुप्तः' इत्यनुस्मरणं घटते; तस्यानुभूतवंस्तुविषयत्वेनानुभवाविनाभावित्वात् , अन्यथा घटाद्यर्थाननुभवेपि तत्रानुस्मरणसम्भवात्कुतस्तदनुभवोपि सिद्ध्येत् ? न च मत्तमूञ्छिताद्यवस्थायामपि विज्ञानाभावाद् दृष्टा १५ न्तस्य साध्य विकलता; इत्याशङ्कनीयम् तवस्थातःप्रच्युतस्योत्तरकालं 'मया न किञ्चिदप्यनुभूतम्' इत्यनुभवाभावप्रसङ्गात्, स्मृतेरनुभवपूर्वकत्वात् । अतो येनानुभवेन सतात्मा निखिलानुभवविकलोऽनुभूयते तस्यामवस्थायां सोऽवश्याभ्युपगन्तव्यः ।
किञ्च, सुप्ताद्यवस्थायां विज्ञानाभावं स एवात्मा प्रतिपद्यते,२० पार्श्वस्थो वा? स एव चेत् तत एव ज्ञानात्, तदभावाद्वा, ज्ञानान्तराद्वा? न तावत्तत एव; अस्यासत्त्वात् , 'तदेव नास्ति तत्र, तत एव चाभावगतिः' इत्यन्योन्यं विरोधात् । ज्ञानाभावात्तत्र तदभावपरिच्छित्तिः, इत्ययुक्तम् ; परिच्छेदस्य ज्ञानधर्मतयाऽभावेऽसम्भवात् , अन्यथा ज्ञानस्यैव 'अभावः' इति नामकृतं स्यात्। २५
अथ ज्ञानान्तरात्तत्र तदभावगतिः, किं तत्कालभाविनः, जाग्रत्प्रवोधकालभाविनो वा ? प्रथमपक्षे कथं सुषुप्ताद्यवस्थायां सर्वथा ज्ञानाभावः? अथ जाग्रत्प्रबोधकालभाविज्ञानाभ्यामन्तराले ज्ञाना
१ शानस्य स्वपरप्रकाशरूपं तिरोहितमतिरोहितं चैतन्यम् । २ चैतन्यस्य । ३ देशे। ४ अभिभूतस्य स्वकार्यकारित्वं यदि स्यात् । ५ प्रतिबन्धसमयेपि । ६ कार्यान्तरे प्रवृत्तिः। ७ असावधानत्वं वा। ८ किञ्च । ९ सुप्तोहमिति शेषः । १. प्रत्यक्षेण । ११ अनुभवाविनाभावित्वं स्मरणस्य यदि न स्यात् । १२ स्मृति । १३ अन्यः । १४ सुषुप्तावस्थायां यस्य ज्ञानस्याभावस्तस्मादेव शानात् । १५ शानस्य । १६ शानाभावे परिच्छेदो यदि स्यात् । १७ शानमन्तरेण परिच्छेदानुपपत्तिर्यतः। १८ सन्ध्याकालप्रातःकालः, तत्र भावि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org